Book Title: Upasakdasha Shrutam Author(s): Abhaydevsuri Publisher: Atmanand Jain Sabha View full book textPage 3
________________ । अहम् । न्यायाम्भोनिविधीमद्विजयानन्दसूरिपादपत्रेभ्यो नमः ॥ ॥ श्रीमद्गणधरसुधर्मस्वामिनिर्मितम् ॥ ॥ श्रीमदभयदेवसूरिविरचितवृत्तियुतम् ॥ ॥ श्रीउपासकदशाङ्गम् ॥ NिAASHARESISTAAS - श्रीवर्द्धमानमानम्य व्याख्या काचिद्विधीयते । उपासकदशादीनां प्रायो ग्रन्थान्तरेक्षिता ॥ १ ॥ तत्रोपासकदशाः सप्तममङ्गम् । इह चायमभिधानार्थः । उपासकानां-श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशाध्ययनरूपा उपासकदशाः । बहुवचनान्तमेतद्ग्रन्थनाम | आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामर्थेनैव प्रतिपादितान्यवगन्तव्यानि । तथा हि-उपासकानुष्ठानमिहाभिधेयं, तदवगमश्च श्रोतृणाममन्तरप्रयोजनं, शास्त्रकृतां तु तत्पतिबोधनमेव तत्, परम्परप्रयोजनं तुभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु द्विविधः शास्त्रेष्वभिधीयते । उपायोप्यभावलक्षणो गुरुपर्वक्रमलक्षणश्च । तत्रोपायोपेयभावलक्षणः शास्त्रPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 118