Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 214
________________ द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । ३५५ वटा-ऽश्वत्था-ऽऽमलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन हव्येन देवप्रीणनमानिनाम् ॥ ३४०॥ भुवि गोदोहकरणाद् रिष्टशान्तिकमानिनाम् । योषिद्विडम्बनाप्रायव्रतधर्मोपदेशिनाम् ॥ ३४१॥ जटापटल-भस्माङ्गराग-कौपीनधारिणाम् । अर्क-धत्तूर-मालूरैर्देवपूजाविधायिनाम् ॥ ३४२॥ कुर्वतां गीतनृत्यादि पुतौ वादयतां मुहुः । मुहुर्वदननादेनाऽऽतोद्यनादविनोदिनाम् ॥ ३४३॥ असभ्यभाषापूर्वं च मुनीन् देवान् जनान् प्रताम् । विधाय व्रतभङ्गं च दासीदासत्वमिच्छताम् ।।३४४॥ 5 अनन्तकायकन्दादि-फल-मूल-दलाशिनाम् । कलत्र-पुत्रयुक्तानां वनवासजुषामपि ॥ ३४५॥ भक्ष्याभक्ष्ये पेयापेये गम्यागम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् ॥३४६॥ अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क्व धर्मः क फलं तस्य तस्य वाख्यातता कथम् ॥ ३४७॥ जैनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् । आनुषङ्गिकमेवेदं मुख्यं मोक्षं प्रचक्ष्यते ॥ ३४८॥ ससहेतौ कृषौ यद्वत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम् ॥ ३४९ ॥ 10 एवं तां देशनां श्रुत्वा भूयांसः प्रावजञ्जनाः। प्राप द्विपृष्टः सम्यक्त्वं श्रावकत्वं च लागली ॥३५०॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां प्रभुः। द्वितीयां पौरुषी यावत् सूक्ष्मो गणधरो व्यधात् ॥३५१॥ ततः स्थानादथान्यत्र विजहार जगद्गुरुः । स्थानं निजनिजं जग्मुरिन्द्रोपेन्द्रबलादयः ॥ ३५२ ॥ द्वासप्ततिः सहस्राणि श्रमणानां महात्मनाम् । साध्वीनां लक्षमेकं तु संयमश्रीजुषां खलु ॥ ३५३॥ चतुर्दशपूर्वभृतां सहस्रं द्वे शते तथा । अवधिज्ञानिनां पञ्च सहस्राः सचतुःशताः ॥३५४॥ 15 मनःपर्यययुक्तानामेकषष्टिः शतानि तु । षष्टिः शतानि विमलकेवलज्ञानशालिनाम् ॥ ३५५ ॥ जाता वैक्रियलब्धीनां सहस्राणि दशैव हि । वादलब्धिमतां सप्तचत्वारिंशच्छतानि तु ॥ ३५६ ॥ श्रावकाणामुभे लक्षे सहस्रा दश पञ्च च । श्राविकाणां चतुर्लक्षी सपट्त्रिंशत्सहस्रिका ॥ ३५७ ॥ चतुःपञ्चाशतं वर्षलक्षाणां मासवर्जितम् । आकेवलाद् विहरतः परिवारः प्रभोरभूत् ॥ ३५८ ॥ ज्ञात्वा च मोक्षमासनं ययौ चम्पां जगत्पतिः । प्रपेदेऽनशनं तत्र पइभिर्मुनिशतैः समम् ॥ ३५९ ॥ 20 मासान्ते चाषाढशुक्लचतुर्दश्यां निशाकरे । उत्तरभद्रपदास्त्रे सशिष्योऽगाच्छिवं विभुः ॥ ३६० ॥ अष्टादशाब्दलक्षाणि कुमारत्वे व्रते पुनः । चतुःपञ्चाशदित्यायुर्लक्षा द्वासप्ततिः प्रभोः ॥ ३६१ ॥ श्रेयांसप्रभुनिर्वाणाद् वासुपूज्यस्य निर्वृतिः। सागरेषु चतुःपञ्चाशत्यतीतेष्वजायत ॥ ३६२ ।। गीर्वाणेन्द्राः सगीर्वाणां निर्वाणमहिमोत्सवम् । स्वामिनः स्वामिशिष्याणामप्यकार्पुर्यथाविधि ॥ ३६३ ॥ द्विपृष्ठवासुदेवोऽपि महारम्भपरिग्रहः । मृगारिरिव निःशङ्को देववञ्च प्रमद्वरः ॥ ३६४ ।। भोगान् यथेच्छं भुञ्जानः पालयित्वायुरात्मनः । विपद्य षष्ठीमगमन्नरकोवीं तमःप्रभाम् ॥ ३६५ ॥ ॥युग्मम् ॥ द्विपृष्टस्य कौमारेऽब्दलक्षं पादोनवर्जितम् । तदेव मण्डलीकत्वे दिग्जयेऽब्दशतं तथा ॥ ३६६ ॥ राज्ये सप्तत्यब्दलक्षी तथा नवशताधिका । वत्सरैकोनपञ्चाशत्सहस्रीत्यायुरूर्जितम् ॥ ३६७ ॥ बलभद्रोऽपि पादोनकोटिहायनजीवितः । तस्थौ कथञ्चिदेकाकी स्वभ्रातृस्नेहमोहितः ॥ ३६८ ॥ 30 श्रीवासुपूज्यवचनसरणेन बन्धुमृत्या च माढतरमेव भवाद् विरक्तः । आत्तव्रतो विजयसूरिपदाब्जमूले काले विपद्य च शिवं विजयो जगाम ॥ ३६९ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीवासुपूज्य-द्विपृष्ट-विजय-तारकचरितवर्णनो। नाम द्वितीयः सर्गः। 35 25 पुतम्-नितम्बस्य विशेषभावः। * विधायिनाम सं०॥ २ अन्तबासिनः शिष्याः। ३ सदेवाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370