Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
३८४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
[चतुर्थ पर्व मार्दवं नाम मृदुता तच्चौद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् ॥ २७४ ॥ अन्तः स्पृशेद् यत्र यत्रोद्धत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोमार्दवमाश्रयेत् ॥ २७५ ॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ २७६ ।।
मानाद् बाहुबलिर्बद्धो लताभिरिव पाप्मभिः । मार्दवात् तत्क्षणं मुक्तः सद्यः संप्राप केवलम् ॥ २७७॥ 5 चक्रवर्ती त्यक्तसंगो वैरिणामपि वेश्मसु । भिक्षायै यात्यहो! मानच्छेदायोमृदुमार्दवम् ॥ २७८ ॥
चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधवे । नमस्यति त्यक्तमानश्चिरं च वैरिवस्यति ॥ २७९ ॥ एवं च मानविषयं ज्ञात्वा दोषमशेषतः । अश्रान्तमाश्रयेद् धीमांस्तन्निरासाय मार्दवम् ॥ २८०॥ असूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥ २८१ ॥ कौटिल्यपटवः पापा मायया वकवृत्तयः । भुवनं वञ्चयमाना वश्चयन्ते स्वमेव हि ॥ २८२ ॥ कूटपाङ्गुण्ययोगेन च्छलाद् विश्वस्तघातनात् । अर्थलोभाच्च राजानो वश्चयन्तेऽखिलं जगत् ॥ २८३ ॥ तिलकैर्मुद्रया मत्रैः क्षामतादर्शनेन च । अन्तःशून्या बहिःसारा वश्चर्यन्ति द्विजा जनम् ॥ २८४ ॥ कूटाः कूटतुलामानाऽऽशुक्रियासातियोगतः । वश्चयन्ते जनं मुग्धं मायाभाजो वणिग्जनाः ॥ २८५॥ जटा-मौञ्जी-शिखा-भस-वल्कलाग्यादिधारणैः । मुग्धं श्राद्धं गर्धयन्ते पाखण्डा हृदि नास्तिकाः ॥२८६॥
अरक्ताभिर्भाव-हाव-लीला-गतिविलोकनैः । कामिनो रञ्जयन्तीभिर्वेश्याभिर्वश्चयते जगत् ॥ २८७ ॥ 15 प्रतार्य कूटैः शपथैः कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते दुरोदरपरायणैः ॥ २८८ ॥
दम्पती पितरः पुत्राः सोदाः सुहृदो निजाः । ईशाभृत्यास्तथाऽन्येऽपि भाययाऽन्योऽन्यवञ्चकाः॥२८९॥ अर्थलुब्धा गतघृणा बन्दिकारमलिम्लुचाः । अहर्निशं जागरूकाश्छलयन्ति प्रमादिनम् ॥ २९० ॥ कौरवश्चान्त्यजाश्चैव स्वकर्मफलजीविनः । माययाऽलीकशपथैः कुर्वते साधुवञ्चनम् ॥ २९१ ॥
व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः प्रमादिनः । क्रूराश्छलैर्बहुविधैर्वाधन्ते मानवान् पशून् ॥ २९२ ॥ 20 मत्स्यादयो जलचराश्छलात् स्वापत्यभक्षकाः । बध्यन्ते धीवरैस्तेऽपि माययाऽऽनॉयपाणिभिः ॥२९३॥
नानोपायमृगयुभिर्वञ्चनप्रवणैर्जडाः । निबध्यन्ते विनाश्यन्ते प्राणिनः स्थलचारिणः ॥ २९४ ॥ नभश्चरा भूरिभेदा वराका लावकादयः । वध्यन्ते माययाऽत्युग्रैः स्वल्पकग्रासगृभुभिः ॥ २९५ ॥ तदेवं सर्वलोकेऽपि परवञ्चकतापराः । स्वस्वधर्म सद्गतिं च नाशयन्ति स्ववञ्चकाः ।। २९६ ॥
तिर्यग्जातेः परं वीजमपवर्गपुरार्गला । विश्वासद्रुमदावाग्निर्माया हेया मनीषिभिः ॥ २९७ ॥ 25 मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशल्यमनुत्याय स्त्रीभावमुपयास्यति ॥ २९८ ॥
तदार्जवमहौषध्या जगदानन्दहेतुना । जयेज्जगद्रोहकरी मायां विषधरीमिव ॥ २९९ ॥ आर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः । आचार्यविस्तरः शेषतपस्त्यागादिलक्षणः ॥ ३०॥ भवेयुरार्जवजुषो लोकेऽपि प्रीतिकारणम् । कुटिलादुद्विजन्ते हि जन्तवः पन्नगादिव ॥ ३०१॥
१ अमृदु कठिनं च तन्मार्दवं चेत्यमृदुमार्दवम् । २ नमस्यति नमः करोति पूजयतीत्यर्थः। ३ वरिवस्यति वरिवः करोति सेवते इत्यर्थः । अत्र 'नमस्' 'वरिवस्' इत्यतः “नमोवरिवचित्रङ्गोऽर्चासेवाऽऽश्चर्ये" [३.४.३०] इति सूत्राद् अायाम् , सेवायाम् च यथाक्रमेण क्यन् प्रत्ययाद् नमस्य ति, वरिवस्यति इति सिद्ध्यतः। ४ निरन्तरम् । ५ असत्यस्य । ६ असत्यषागुण्यस्य सन्ध्यादेः प्रयोगेण । ७ दीनताप्रदर्शनेन । * °यन्तेऽखिलं ज° संवृ०॥ ८ आशुक्रिया-सत्वरक्रिया। ९ मौजी-मुञ्जस्य तृणविशेषस्य कटिमेखला। १० लोभयन्ति । ११ असत्यनाणकम् । १२ दुरोदरः-यूतम् । १३ मङ्गलपाठकरूपेण चौराः। १४ कर्मकराः। १५ आनायो जालं पाणौ हस्ते येषां तैः। १६ व्याधैः । १७ लावकः पक्षि विशेषः। १८ गृभुः-लोलुपः। 1 °यन्तः ख संवृ०॥ १९ सर्पिणीम् । २० त्रस्यन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370