Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
15
३८८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व स तमिस्रागुहाद्वारे द्वारपालमिव स्थितम् । विधिवत् साधयामास कृतमालाभिधं सुरम् ॥ ३० ॥ तस्यादेशाच्चमूनाथः सिन्धुमुत्तीर्य चर्मणा । प्रत्यग्निष्कुटमाक्रामत् तस्याः पुनरुपाययौ ॥ ३१ ॥ सेनान्या दण्डरत्नेन कपाटोद्घाटने कृते । ससैन्यः प्राविशञ्चक्री गजरत्नेन तां गुहाम् ॥ ३२॥ अन्तर्विरचितालोकः काकिणीकृतमण्डलैः । कुम्भिदक्षिणकुम्भस्थमणिभाप्रसरेण च ॥ ३३ ॥ उत्तीर्य वैर्धकिकृतपद्यया चान्तरस्थिते । नद्यामुन्मग्ननिमग्नजले अत्यन्तदुस्तरे ॥ ३४ ॥ स्वयं विश्लिष्टकपाटेनोत्तरद्वारवर्मना । तस्या गुहाया निरगात् सह चम्बा स चक्रभृत् ॥ ३५ ॥ आपातनामकॉस्तत्र किरातानतिदुर्जयान् । मघवेवासुरभटान् विधिवन्मघवाऽजयत् ॥ ३६ ॥ सिन्धोश्च निष्कुटी प्रत्यगजयत् तच्चमूपतिः । स्वयं त्वसाधयद् गत्वा हिमाचलकुमारकम् ॥ ३७॥ मघवा चक्रवर्तीति कूटे ऋषभनामनि । आदाय काकिणीरत्नं लिलेख निजनाम सः॥ ३८ ॥ ततो निवृत्तो मघवा गङ्गायाः पूर्वनिष्कुटम् । सेनान्या साधयामास गङ्गादेवीं स्वयं पुनः ॥ ३९॥ वैताट्यपर्वतश्रेणिद्वयविद्याधरानपि । स तृतीयश्चक्रधरः साधयामास लीलया ॥ ४० ॥ खण्डप्रपाताद् द्वारस्थं नाट्यमालमथापरम् । यथाविध्यात्मसाचक्रे चक्रभृद् विधिकोविदः॥ ४१ ॥ खण्डप्रपातया सेनान्युद्घाटितकपाटया । वैताठ्यान्निरंगाच की पोतोऽर्णवजलादिव ॥ ४२ ॥ नवापि निधयस्तत्र गङ्गामुखनिवासिनः । बभूवुर्वशगास्तस्य नैसर्पप्रमुखाः सुखम् ॥ ४३॥ सेनान्या साधयामासं गाङ्ग पश्चिमनिष्कुटम् । इत्थं स च वशीचके पटखण्डमपि भारतम् ॥४४॥ संपूर्णचक्रिसामग्र्या भ्राजिष्णुर्मघवा ततः। श्रावस्तीनगरीमागान्मघवेवामरावतीम ॥४५॥ तत्र देवैर्नृदेवैश्च मघोनोऽनूनसंपदः । चक्रवर्तित्वाभिषेकोऽविधीयत यथाविधि ॥ ४६॥ अभिषिक्तोऽपि चक्रित्वे सेवमानोऽपि सन्ततम् । द्वात्रिंशता मुंकुटिनां सहस्रमैदिनीभुजाम् ॥४७॥
श्रीयमाणः पोडशभिः सहस्रधुसदामपि । निधिभिनवभिरपि परिपूर्णेप्सितोऽपि हि ॥४८॥ 20 चतुःषष्ट्या सहस्रैश्च शुद्धान्तहरिणीदृशाम् । नयनेन्दीवरस्रग्भिरज़मानोऽप्यनारतम् ॥४९॥
अन्येष्वपि प्रमादस्य स्थानेषु सुलभेषु सः । पिध्ये श्रावकधर्मे तु न जात्वासीत् प्रमद्वरः ॥५०॥ नानाविधानि चैत्यानि विमानानीव नाकिनाम् । जिनविम्बसनाथानि स्वर्णरत्नेय॑धत्त सः॥५१॥ यथैकः स पतिः पृथ्व्यास्तथा तस्याप्यजायत । अर्हन् देवः सुसाधुश्च गुरुर्धर्मो दयामयः ॥ ५२ ॥
सदा स चैत्यपूजासु तत्पूजाविव राजकम् । नोज्झाञ्चकार नियमं नित्यं नियमितेन्द्रियः॥ ५३ ॥ 25 अविरतश्रावकत्वेनातिवाह्यायुरात्मनः । सोऽन्तकाले परिव्रज्यामुपादत्त यथाविधि ॥ ५४॥
कौमारेऽब्दसहस्राणि पश्चविंशतिरस्य तु । मण्डलित्वेऽपि तावन्ति दशैव तु दिशां जये ॥ ५५॥ चक्रित्वे तु व्यब्दलक्षी सहस्रा नवतिस्तथा । व्रतकाले च पञ्चाशत्सहस्राः शरदां पुनः ॥५६॥
पश्चाब्दलक्षीमतिवाह्य जन्मतः पश्चामलात्मा परमेष्ठिनः स्मरन् ।
पश्चत्वमाप्येन्द्रसमानवैभवः सनत्कुमारेऽजनि सोऽमराग्रणीः ॥ ५७॥ 30
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे इत्याचाय
पर्वणि मघवचक्रवर्तिचरितवर्णनो नाम षष्ठः सर्गः।
१ चर्मरत्नेन । २ हस्तिनो दक्षिणकुम्भस्थले स्थितस्य मणेः कान्तिप्रसरेण । ३ वर्धकिरत्नेन कृता या पथा सेतुबन्धस्तया। * 'घवा वाऽसु' संबृ० ॥ टिं प्राज्यमज' संवृ०॥ स गङ्गायाः पूर्वनि' मु.॥ ४ मुकुटधारिणां राज्ञाम् । ५ आश्रीयमाणः। ६ पूर्यमाणे । ७ अन्तःपुरस्त्रीणाम् । ८ नयनान्येव कमलानि तेषां मालाभिः। ९ सदा। १० पितुरागते परम्परयेत्यर्थः । | पृथ्टयां त° का. ॥ र नीति च नित्यं संपृ. ॥ ** "तिस्तस्य मु.॥११ निर्मलारमा पञ्चपरमेष्ठिना मरमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370