Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 260
________________ 10 सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । वर्ण्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भुतम् । रूपं नृप! ततोऽप्येतत् सविशेषं निरीक्ष्यते ॥ ३५८ ॥ ऊचे सनत्कुमारोऽपि सितविच्छुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ॥ ३५९ ॥ इतो भूत्वा प्रतीक्षेथां क्षणमात्रं द्विजोत्तमौ ! । यावनिर्वय॑तेऽस्माभिरेष मज्जनकक्षणः ॥ ३६० ॥ विचित्ररचनाकल्यं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां सरत्नमिव काश्चनम् ॥ ३६१ ॥ ततोऽवनिपतिः स्नात्वा कल्पिताकल्पभूषणः । साडम्बरः सँदोऽध्यास्ताम्बररत्नमिवाम्बरम् ॥ ३६२॥ 5 अनुज्ञातौ ततो विप्रौ पुरोभूय महीपतेः । निर्देध्यतुश्च तद्रूपं विषण्णौ दध्यतुश्च तौ ।। ३६३ ॥ क तद् रूपं व सा कान्तिः क तल्लावण्यमप्यगात् । क्षणेनाप्यस्य मानां क्षणिकं सर्वमेव हि ॥३६४ ॥ नृपः प्रोवाच.तौ कस्माद् दृष्ट्वा मां मुदितौ पुरा? । कमादकमादधुना विषादमलिनाननौ ? ॥३६५ ॥ ततस्तावूचतुरिदं सुधामधुरया गिरा । महाभाग! सुरावावां सौधर्मखर्गवासिनौ ॥ ३६६ ॥ मध्येसुरसभं शक्रश्चके त्वद्रूपवर्णनम् । अश्रद्दधानौ तद् द्रष्टुं मर्त्यमूर्त्याऽऽगताविह ॥ ३६७ ॥ शक्रेण वर्णितं यादृक् तादृगेव पुरेक्षितम् । रूपं नृप! तवेदानीमन्यादृशमजायत ॥ ३६८॥ अधुना व्याधिभिरयं कान्तिसर्वस्वतस्करैः । देहः समन्तादाक्रान्तो निःश्वासैरिव दर्पणः ॥ ३६९ ॥ यथार्थमभिधायेति द्राक् तिरोहितयोस्तयोः। विच्छायं खं नृपोऽपश्यद्धिमग्रस्तमिव द्रुमम् ॥ ३७० ॥ सोऽचिन्तयच्च धिगिदं सदा गर्दैपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूछो तुच्छबुद्धयः ॥ ३७१ ॥ शरीरमन्तरुत्पन्नैयाधिभिर्विविधैरिदम् । दीयेते दारुणैर्दारु दारुकीटगणैरिव ॥ ३७२ ॥ 15 बहिः कश्चिद् यद्येतत् रोच्येत तथापि हि । नैयग्रोधं फलमिव मध्ये कृमिकुलाकुलम् ।। ३७३ ॥ रुजा लुम्पति कायस्य तत्कालं रूपसंपदम् । महासरोवरस्येव वारि सेवालवल्लरी ॥ ३७४ ॥ शरीरं श्रथते नाऽऽशा रूपं याति न पापधीः । जरा स्फुरति न ज्ञानं धिक स्वरूपं शरीरिणाम् ॥ ३७५ ॥ रूपं लवणिमा कान्तिः शरीरं द्रविणान्यपि । संसारे तरलं सर्व कुशाग्रजलबिन्दुवत् ।। ३७६ ॥ अाश्रीनविनाशस्य शरीरस्य शरीरिणाम । सकामनिर्जरासारं तप एव महत्फलम ॥ ३७७॥ इति संजातवैराग्यभावनः पृथिवीपतिः। प्रव्रज्यां स्वयमादित्सुः सुतं राज्ये न्यवीविशत् ।। ३७८ ॥ गत्वोद्याने सविनयं विनयन्धरसूरितः । सर्वसावद्यविरतिप्रधानं सोऽग्रहीद तपः ॥ ३७९ ॥ ___ महाव्रतधरस्यास्य दधानस्योत्तरान् गुणान् । ग्रामाद् ग्रामं विहरतः समतैकाग्रचेतसः ॥ ३८० ॥ गाढानुरागबन्धेन सर्व प्रकृतिमण्डलम् । पृष्ठतोऽगात् करिकुलं महायूथपतेरिव ॥ ३८१ ॥ युग्मम ॥ निष्कषायमुदासीनं निर्ममं निष्परिग्रहम् । तं पर्युपास्य षण्मासान् कथञ्चित् तस्यवर्तत ।। ३८२ ॥ 25 कृतषष्ठः पारणाय प्रविष्टो गोचरेऽन्यदा । लेमे चीनककूरं स सोजातक्रमभुक्त च ॥ ३८३ ॥ भूयोऽपि षष्ठभक्तान्ते तथैव कृतपारणात् । व्याधयोऽस्य ववृघिरे संपूर्णादिव दोहदात् ।। ३८४ ॥ कच्छूशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्त वर्षशतानि सः॥ ३८५ ॥ दुःसहान् सहमानस्य तस्याशेषपरीषहान् । उपेयनिरपेक्षस्य समपद्यन्त लब्धयः ॥ ३८६ ॥ कफविघुइजल्लमलविष्टामस्तथा परम् । सर्वमप्यौषधिरिति नामतः सप्त लब्धयः ।। ३८७ ॥ 30 अत्रान्तरे सुरपतिः समुद्दिश्य दिवौकसः । हृदि जातचमत्कारश्वकारेत्यस वर्णनम् ॥ ३८८ ॥ विचित्ररचनया सजीभूतम् । २ कल्पितानि नेपथ्यानि च भूषणानि च यस्य । ३ सभाम् । ४ सूर्यः। ५ अवलो. कयाचक्रतुः। ६ चिन्तयामासतुः। ७रोगस्थानम् । काष्ठकीटसमूहैः। ९ अभिप्रेतं भवेत् । * °ग्रोधफ संवृ०॥ १. अद्य वा श्वो वा अधश्वीनः। " समतयैकाग्रं चेतो यस्य तस्य । नास्त्येतत् पदं 'का' मादर्श।चर मुनिःले संवृका॥ १२ मजायावरण सहितम् । उपाय मु०॥ उसेयम् फलम् । मासीस्त संवृ०॥ नाम् का.॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370