________________
10
सप्तमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । वर्ण्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भुतम् । रूपं नृप! ततोऽप्येतत् सविशेषं निरीक्ष्यते ॥ ३५८ ॥ ऊचे सनत्कुमारोऽपि सितविच्छुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ॥ ३५९ ॥ इतो भूत्वा प्रतीक्षेथां क्षणमात्रं द्विजोत्तमौ ! । यावनिर्वय॑तेऽस्माभिरेष मज्जनकक्षणः ॥ ३६० ॥ विचित्ररचनाकल्यं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां सरत्नमिव काश्चनम् ॥ ३६१ ॥ ततोऽवनिपतिः स्नात्वा कल्पिताकल्पभूषणः । साडम्बरः सँदोऽध्यास्ताम्बररत्नमिवाम्बरम् ॥ ३६२॥ 5 अनुज्ञातौ ततो विप्रौ पुरोभूय महीपतेः । निर्देध्यतुश्च तद्रूपं विषण्णौ दध्यतुश्च तौ ।। ३६३ ॥ क तद् रूपं व सा कान्तिः क तल्लावण्यमप्यगात् । क्षणेनाप्यस्य मानां क्षणिकं सर्वमेव हि ॥३६४ ॥ नृपः प्रोवाच.तौ कस्माद् दृष्ट्वा मां मुदितौ पुरा? । कमादकमादधुना विषादमलिनाननौ ? ॥३६५ ॥ ततस्तावूचतुरिदं सुधामधुरया गिरा । महाभाग! सुरावावां सौधर्मखर्गवासिनौ ॥ ३६६ ॥ मध्येसुरसभं शक्रश्चके त्वद्रूपवर्णनम् । अश्रद्दधानौ तद् द्रष्टुं मर्त्यमूर्त्याऽऽगताविह ॥ ३६७ ॥ शक्रेण वर्णितं यादृक् तादृगेव पुरेक्षितम् । रूपं नृप! तवेदानीमन्यादृशमजायत ॥ ३६८॥ अधुना व्याधिभिरयं कान्तिसर्वस्वतस्करैः । देहः समन्तादाक्रान्तो निःश्वासैरिव दर्पणः ॥ ३६९ ॥ यथार्थमभिधायेति द्राक् तिरोहितयोस्तयोः। विच्छायं खं नृपोऽपश्यद्धिमग्रस्तमिव द्रुमम् ॥ ३७० ॥
सोऽचिन्तयच्च धिगिदं सदा गर्दैपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूछो तुच्छबुद्धयः ॥ ३७१ ॥ शरीरमन्तरुत्पन्नैयाधिभिर्विविधैरिदम् । दीयेते दारुणैर्दारु दारुकीटगणैरिव ॥ ३७२ ॥ 15 बहिः कश्चिद् यद्येतत् रोच्येत तथापि हि । नैयग्रोधं फलमिव मध्ये कृमिकुलाकुलम् ।। ३७३ ॥ रुजा लुम्पति कायस्य तत्कालं रूपसंपदम् । महासरोवरस्येव वारि सेवालवल्लरी ॥ ३७४ ॥ शरीरं श्रथते नाऽऽशा रूपं याति न पापधीः । जरा स्फुरति न ज्ञानं धिक स्वरूपं शरीरिणाम् ॥ ३७५ ॥ रूपं लवणिमा कान्तिः शरीरं द्रविणान्यपि । संसारे तरलं सर्व कुशाग्रजलबिन्दुवत् ।। ३७६ ॥ अाश्रीनविनाशस्य शरीरस्य शरीरिणाम । सकामनिर्जरासारं तप एव महत्फलम ॥ ३७७॥ इति संजातवैराग्यभावनः पृथिवीपतिः। प्रव्रज्यां स्वयमादित्सुः सुतं राज्ये न्यवीविशत् ।। ३७८ ॥ गत्वोद्याने सविनयं विनयन्धरसूरितः । सर्वसावद्यविरतिप्रधानं सोऽग्रहीद तपः ॥ ३७९ ॥ ___ महाव्रतधरस्यास्य दधानस्योत्तरान् गुणान् । ग्रामाद् ग्रामं विहरतः समतैकाग्रचेतसः ॥ ३८० ॥ गाढानुरागबन्धेन सर्व प्रकृतिमण्डलम् । पृष्ठतोऽगात् करिकुलं महायूथपतेरिव ॥ ३८१ ॥ युग्मम ॥ निष्कषायमुदासीनं निर्ममं निष्परिग्रहम् । तं पर्युपास्य षण्मासान् कथञ्चित् तस्यवर्तत ।। ३८२ ॥ 25 कृतषष्ठः पारणाय प्रविष्टो गोचरेऽन्यदा । लेमे चीनककूरं स सोजातक्रमभुक्त च ॥ ३८३ ॥ भूयोऽपि षष्ठभक्तान्ते तथैव कृतपारणात् । व्याधयोऽस्य ववृघिरे संपूर्णादिव दोहदात् ।। ३८४ ॥ कच्छूशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्त वर्षशतानि सः॥ ३८५ ॥ दुःसहान् सहमानस्य तस्याशेषपरीषहान् । उपेयनिरपेक्षस्य समपद्यन्त लब्धयः ॥ ३८६ ॥ कफविघुइजल्लमलविष्टामस्तथा परम् । सर्वमप्यौषधिरिति नामतः सप्त लब्धयः ।। ३८७ ॥ 30
अत्रान्तरे सुरपतिः समुद्दिश्य दिवौकसः । हृदि जातचमत्कारश्वकारेत्यस वर्णनम् ॥ ३८८ ॥
विचित्ररचनया सजीभूतम् । २ कल्पितानि नेपथ्यानि च भूषणानि च यस्य । ३ सभाम् । ४ सूर्यः। ५ अवलो. कयाचक्रतुः। ६ चिन्तयामासतुः। ७रोगस्थानम् । काष्ठकीटसमूहैः। ९ अभिप्रेतं भवेत् । * °ग्रोधफ संवृ०॥ १. अद्य वा श्वो वा अधश्वीनः। " समतयैकाग्रं चेतो यस्य तस्य । नास्त्येतत् पदं 'का' मादर्श।चर मुनिःले संवृका॥ १२ मजायावरण सहितम् । उपाय मु०॥ उसेयम् फलम् । मासीस्त संवृ०॥ नाम् का.॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org