________________
10
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्थ पर्व तस्थौ सनत्कुमारस्य सामन्तादिः परिच्छदः । सामानिकादिको वज्रपाणेरिव यथोचितम् ॥ ३२६ ॥ तस्याथ चक्रवर्तित्वाभिषेकं पुण्यवारिभिः । राज्याभिषेकं श्रीनाभिसूनोरिव सुरा व्यधुः ॥ ३२७ ॥ मङ्गल्यं गीतमारेभे तुम्बुरुप्रमुखैरथ । पटहादीनि वाद्यानि त्रिदशैस्ताडितानि च ।। ३२८ ॥ रम्भोर्वशीप्रभृतिभिर्नर्तकीभिरनृत्यत । विचित्राण्यभ्यनीयन्त गन्धर्नाटकानि च ॥ ३२९ ॥ सनत्कुमारं त्रिदशा अभिषिच्यैवमुच्चकैः । वस्त्राङ्गरागनेपथ्यमाल्यैर्दिव्यैरयोजयत् ।। ३३० ॥ गजरत्नं गन्धवरमध्यारोह्य न्यवीविशत् । सनत्कुमारं मुदितः कुवेरो हस्तिनापुरे॥ ३३१ ॥ स्वपुरीवद् धनापूर्ण नगरं हस्तिनापुरम् । कृत्वा कुबेरोऽथ ययौ विसृष्टश्चक्रवर्तिना ॥ ३३२ ॥ राजभिर्बद्धमुकुटैः सामन्तैरपरैरपि । तस्याभिषेको विदधे स्वसंपद्वल्लिसारणिः ॥ ३३३ ॥ अभिषेकोत्सवात् तस्याभूत् पुरं हस्तिनापुरम् । द्वादशाब्दी दण्डशुल्कभटवेशादिवर्जितम् ॥ ३३४ ॥ स चक्री पालयामास पितेव विधिवत् प्रजाः। महाऋद्धिः शक्र इव करादिभिरपीडयन् ॥ ३३५ ॥ न समोऽस्य प्रतापेन यथा कश्चिदजायत । यथैवाप्रतिरूपेण रूपेणापि जगत्रये ॥ ३३६ ॥ । तदानीं च सुधर्मायां रत्नसिंहासनस्थितः । शक्रः सौदामनीं नाम नाटकं नाटयन्नभृत् ।। ३३७॥ अनवद्येन रूपेण सर्वरूपाभिभाविना । विसापयन् दिविषदस्तत्पर्षदि निषेदुपः॥ ३३८ ॥ देहप्रभाभिस्तिरयस्तेजांसखिलनाकिनीम् । ऐशानकल्पादभ्यागात् संगमस्तत्र चामरः ॥ ३३९ ॥
॥युग्मम् ॥ गतेऽथ तसिन् पप्रच्छुः शक्रमेवं दिवौकसः । अस्स लोकोत्तरं तेजो रूपं चानुपमं कथम् ? ॥ ३४० ॥ शक्रोऽप्यशंसदेतेन प्राग्जन्मनि कृतं तपः । आचामाम्लवर्धमानं तेनेमे रूपतेजसी ॥ ३४१ ॥ किमन्योऽपीदृशः कोऽपि विद्यतेज जगत्रये । इति भूयोऽमरैः पृष्टः सौधर्मेन्द्रोऽब्रवीदिदम् ।। ३४२॥
राज्ञः सनत्कुमारस्य कुरुवंशशिरोमणेः । यद्रूपं न तदन्यत्र देवेषु मनुजेषु च ।। ३४३ ।। 20 इति प्रशंसां रूपस्याश्रद्दधानावुभौ सुरौ । विजयो वैजयन्तश्च पृथिव्यामवतेरतुः ॥ ३४४ ॥
ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे । प्रासादद्वारि नृपतेस्तस्थतुःस्थसन्निधौ ॥ ३४५ ॥ आसीत् सनत्कुमारोऽपि तदा प्रारब्धमजनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन् । ३४६ ॥ द्वारस्थौ द्वारपालेन द्विजाती तौ निवेदितौ । न्यायवर्ती चक्रवर्ती तदानीमप्यवीविशत् ॥३४७॥
सनत्कुमारमालोक्य विसयमेरमानसौ । धूनयामासतुर्मोलिं चिन्तयामासतुश्च तौ ॥ ३४८॥ 23 ललाटपट्टः पर्यस्ताष्टमीजनिजानिकः । नेत्रे कर्णान्तविश्रान्ते जितनीलोत्पलत्विषी ॥ ३४९ ॥
दन्तच्छदौ पराभूतपक्कविम्बफलच्छवी । निरस्तशुक्तिको कौँ कण्ठोऽयं पाश्चजन्यजित् ॥ ३५०॥ करिराजकराकारतिरस्कारकरी भुजौ । वर्णशैलशिलालक्ष्मीविलुण्टाकमुरस्थलम् ॥ ३५१॥ मध्यभागो मृगारातिकिशोरोदरसोदरः। किमन्यदस्य सर्वाङ्गलक्ष्मीर्वाचां न गोचरा ॥ ३५२ ॥
अहो! कोऽप्यस्य लावण्यसरित्पूरो निरर्गलः । येनाभ्यङ्गं न जानीमो ज्योत्स्नयोडुप्रभामिव ।। ३५३ ॥ 30 यथेन्द्रो वर्णयामास तथेदं भाति नान्यथा । मिथ्या न खलु भाषन्ते महात्मानः कदाचन ॥ ३५४ ॥
किंनिमित्तमिहायातौ भवन्तौ द्विजसत्तमौ ? । इत्थं सनत्कुमारेण पृष्टौ तावेवमूचतुः ॥ ३५५ ॥ लोकोत्तरचमत्कारकारकं सचराचरे । भुवने भवतो रूपं नरशार्दूल! गीयते ॥ ३५६ ॥ दूतोऽपि तदाकये तरङ्गितकुतूहलो । विलोकयितुमायातावावामनिवासव! ।। ३५७ ॥
श्रीभादीश्वरस्य । २ सर्वरूपतिरस्कारिणा । ३ निषण्णान् । ४ आच्छादयन् । * °नाम्। ईशा का० ॥ नास्त्येतत् पदं संवृ. 'का' इत्यादर्शयोः॥ षु वा । का०॥ ५ प्रारब्धं मजनं स्नानं येन । ६ द्विजौ। ७ रजनिजानिश्चन्द्रः। विम्बीफ' का०॥ विलुण्टाकचौरः। ९ वारकप्रभाम् । लशोभनम् संवृ०॥ १. अवनिपते !।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org