________________
सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३९९ क्रीडानिमित्तमधुना विहागात् तव बान्धवः । मिलितस्त्वं च दलितो दुर्दैवस्य मनोरथः ॥ २९५ ।। इत्युक्तवत्यां बकुलमत्यां रतिनिकेतनात् । सनत्कुमारो निरगाभदादिव मतङ्गजः ॥ २९६ ॥ समं महेन्द्रसिंहेन विद्याधरसमावृतः । वैताढ्याद्रिं ततः सोऽगात् सुमेरुमिव वासवः ।। २९७ ॥ स कालं गमयन्नृद्धया महत्या परिबृंहितः । महेन्द्रसिंहेनान्येधुर्व्यज्ञपीदं यथोचितम् ।। २९८ ॥ तव ऋद्ध्याऽनया स्वामिन् ! मनो मे मोदतेतमाम् । पितरौ त्वद्वियोगातौ स्मारं स्मारं च सीदतः ॥ २९९ ॥ असौ सनत्कुमारोऽसौ महेन्द्र इति तन्मयम् । पितरौ पश्यतो विश्वं मन्ये तनयवत्सलौ ॥ ३०॥ तत् प्रसीदाभिगच्छामो नगरं हस्तिनापुरम् । आनन्दय पितृजनं शशाङ्क इव सागरम् ॥ ३०१॥ तेनेत्यभिहितः सख्या सोत्कण्ठः सोऽपि तत्क्षणात् । विद्याधराधिपशतैश्चमूयुक्तः समावृतः ॥ ३०२॥ विमानैर्भासुरैः कुर्वन् नानाऽऽदित्यमिवाम्बरम् । विद्याधरैः कैश्चिदपि विकृतातपवारणः ॥ ३०३ ॥ उद्भूतचामरः कैश्चित् कैश्चिदप्यूढपादुकः । कैश्विद् गृहीतव्यजन आत्तवेत्रश्च कैश्चन ॥ ३०४ ॥ 10 ध्रियमाणस्थगिकोऽन्यैः कथ्यमानपथोऽपरैः । दर्यमानविनोदोऽन्यैस्स्तूयमानगुणोऽपरैः ।। ३०५ ॥ कैरपि द्विरदारूढेरश्वारूढैश्च कैश्चन । कैश्विञ्च स्पन्दनारूढः खे कैश्चित् पादचारिभिः ॥ ३०६ ॥ सकलत्रः समित्रश्वामित्रशैलमहाशनिः । सनत्कुमारः संप्राप नगरं हस्तिनापुरम् ॥ ३०७ ॥
॥षइभिः कुलकम् ॥ पितरौ तत्र दुःखातौ पौराँश्च निजदर्शनात् । स समानन्दयद् ग्रीष्मतापाानिव वारिदः ॥ ३०८॥ 15 सनत्कुमारं स्खे राज्येऽश्वसेननृपतिबंधात् । महेन्द्रसिंह तत्सेनाधिपत्ये प्रीतमानसः ॥ ३०९॥ श्रीधर्मतीर्थकृत्तीर्थे स्थविराणामथान्तिके । परिव्रज्यां समादाय राजा स्वार्थमसाधयत् ।। ३१० ॥ राज्यं सनत्कुमारस्य परिपालयतः सतः । महारत्नान्यजायन्त चक्रादीनि चतुर्दश ॥ ३११ ॥ ततः स साधयामास चक्रमार्गानुगः स्वयम् । षट्रखण्डं भरतक्षेत्रं नैसर्पाद्यान् निधीनपि ॥ ३१२ ॥ देशभिर्वर्षसहस्रैः साधयित्वा स भारतम् । प्राविशद् रत्नभूतेन हस्तिना हस्तिनापुरम् ॥ ३१३॥ 20 प्रविशन्तं महात्मानमवधिज्ञानतोऽथ तम् । वीक्षाञ्चक्रे सहस्राक्षः साक्षात् स्वमिव सौहृदात् ॥ ३१४॥ सौधर्मेन्द्रः पूर्वजन्मन्यसौ मे तेन बान्धवः । इति स्नेहबशाच्छकः कुबेरमिदमादिशत् ।। ३१५ ॥ अयं शंकचरश्चक्री कुरुवंशाब्धिचन्द्रमाः । राज्ञोऽश्वसेनस्य सुतो महात्मा बन्धुवन्मम ।। ३१६ ॥ सनत्कुमारः षट्खण्डं साधयित्वाऽद्य भारतम् । स्वपुरं प्रविशत्येषोऽभिषेकोऽस्य विधीयताम् ॥ ३१७ ॥ हारं च शशिमालां चातपत्रं चामरे अपि । मकुटं कुण्डलयुगं देवदष्यद्वयीमपि ॥ ३१८॥
25 सिंहासनं पादके च पादपीठं च भासुरम् । सद्यः सनत्कुमारार्थ कुबेरस्यार्पयद्धरिः॥३१९॥ तिलोत्तमोर्वशीमेनारम्भातुम्बुरुनारदान् । अन्यानपीन्द्रस्तदभिषेकायाशु समादिशत् ॥ ३२० ॥ ततः कुबेरस्तः सार्धमेत्य नागपुरे वरे । आख्यत् सनत्कुमाराय तमादेशं दिवस्पतेः ॥ ३२१ ॥ सनत्कुमारानुज्ञातो विचकारैकयोजनम् । माणिक्यपीठं धनदो रोहणारेस्तटीमिव ॥ ३२२ ॥ सर्व मण्डपं दिव्यं मणिपीठं च मध्यतः । सिंहासनं तदुपरि विदधे धनदः क्षणात् ॥ ३२३ ॥ 30 क्षीरोदात् त्रिदशैरम्भोऽथानायि धनदाज्ञया । गन्धमाल्यादि चानयं सर्वेरपि च पार्थिवैः ॥ ३२४ ॥ सनत्कुमारं विज्ञप्य तत्र सिंहासनोत्तमे । कुबेर आसयामास शक्रप्राभृतमार्पयत् ॥ ३२५ ॥
* 'रपरावृ संवृ० ॥f 'दावग मु०॥ कैः परावृ संवृ०॥ १ स्थगी ताम्बूलकरकः । नास्त्येतत् पदद्धयं 'संवृ. 'का.' इत्येतयोरादर्शयोः॥ कृत्वा वर्षसहस्रेणैकातपत्रं सभा संवृ० का०॥प्रावि० संवृ०॥२ भूतपूर्वः शकः शकचरः। “भूतपूर्व प्रद" [७.२.७८.] इति सूत्रसंसिद्धेः। ६ क्रवर मु०॥ * हारांच संबू.॥३हसिनापुरे। रे पुरे।मु०॥ आख्यात् मु.॥ . इन्द्रस्य । °दि वान' संब० ॥ ॥ विज्ञाप्य संवृ० का० ॥ * °याचकेश संबका.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org