________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्थ पर्व चक्रवर्तिश्रियं त्यक्त्वा प्रज्वलत्तृणपूलवत् । अहो! सनत्कुमारोऽयं तप्यते दुस्तपं तपः ॥ ३८९ ॥ तपोमाहात्म्यलब्धासु सर्वास्खपि हि लब्धिषु । शरीरनिरपेक्षोऽयं स्वरोगान्न चिकित्सति ।। ३९० ॥ अश्रद्दधानौ तद्वाक्यं वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च तत्समीपमुपेयतुः ॥ ३९१ ॥ ऊचतुश्च महाभाग! किं रोगैः परिताम्यसि । वैद्यावावां चिकित्सावो विश्वं स्वैरेव भेषजैः ॥ ३९२॥ यदि त्वमनुजानासि रोगग्रस्तशरीरकः । तदह्वाय निगृह्णीवो रोगानुपंचितांस्तव ॥ ३९३ ॥ ततः सनत्कुमारोऽपि प्रत्यूचे भोश्चिकित्सकौ! । द्विविधा देहिनां रोगा द्रव्यतो भावतोऽपि च ॥ ३९४ ॥ क्रोध-मान-माया-लोभा भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानुगामिनोऽत्यन्तदुःखदाः ॥३९५॥ ताँचिकित्सितुमीशौ चेद् युवां तर्हि चिकित्सतम् । अथो चिकित्सथो द्रव्यरोगाँस्तद् बत! पश्यतम् ॥३९६ ॥ ततोऽङ्गुलिं गलत्पामां शीणां खफविनुषा । लिवा शुलवं रसेनेव द्राक् सुवर्णीचकार सः ॥ ३९७ ॥ ततस्तामङ्गुली वर्णशलाकामिव भाखतीम् । आलोक्य पादयोस्तस्य पेततुः पोचतुश्च तौ ॥ ३९८ ॥ निरंपयिषू त्वद्रूपं यौ त्वामायातपूर्विणौ । तावेव त्रिदशावावां संप्रत्यपि समागतौ ॥ ३९९ ॥ सिद्धलब्धिरपि व्याधियाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत् ॥ ४००॥ आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥ ४०१ ॥
कौमारे वर्षलक्षाधं मण्डलित्वे तदेव हि । दशवर्षसहस्राणि कर्कभामुपसाधने ॥ ४०२॥ 15 चक्रित्वे नवतिवर्षसहस्राणि व्रते पुनः । वर्षलक्षमिति व्यब्दलक्षायुस्तुर्यचक्रिणः ॥ ४०३ ॥
ज्ञातेऽवसानसमयेऽनशनं प्रपद्य लक्षत्रयेण शरदां परिपूरितायुः। सुध्यानपञ्चपरमेष्ठिसनत्कुमारः कल्पे सुरः समजनिष्ट सनत्कुमारे ॥ ४०४ ॥ पश्चाहन्तः सीरिणः पञ्च पञ्चोपेन्द्राः पञ्चैतविषश्चक्रिणौ द्वौ । यत्रोक्ता द्वाविंशतिः सूत्ररत्नाम्भोधेस्तुर्य पर्व तद् वः श्रियेऽस्तु ।। ४०५॥ सूत्रात् किश्चिदुदीरितं कथाम्यः किञ्चिद् योगपटाच्च किश्चिदत्र । तेषु स्याद् यदि किश्चनापि मिथ्या मिथ्यादुष्कृतमस्तु तत्र सन्तः ॥ ४०६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि सनत्कुमारचरितवर्णनो नाम
सप्तमः सर्गः संपूर्णः।
20
॥ समाप्तं चेदं चतुर्थ पर्व ।।
१ भाज्ञापयसि। २ वृद्धान् । 'नोऽनन्त का० ॥ ३ समयौं। * "त्सवो द्र संवृ०॥ ४ स्व श्लेष्मबिन्दुना । ५ तात्रम् । निरुरूपयिषू रूपं संवृ० का०॥ ६ दिशा जये। बलभद्राः। 6 वासुदेवाः। ९ प्रतिवासुदेवाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org