Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
तृतीयः सर्गः ]
त्रिषष्टिशलाका पुरुष चरितमहाकाव्यम् ।
१६७ ॥
१६८ ॥
१६९ ।।
१७० ॥
15
शार्ङ्गपाणेरुरःपीठं तेनाजने चपेटया । कांस्यतालं कांस्यतालेनेव प्रास्फलता दृढम् ॥ १५७ ॥ चक्रतुम्बाग्रघातेन स्वयम्भूस्तेन मूच्छितः । पपात स्यन्दनोत्सङ्गे क्षीबैवत् तरलेक्षणः ॥ १५८ ॥ दधार च तमुत्सङ्गे मुशली प्रियबान्धवः । वैत्साश्वसिद्याश्वसिहीत्युच्चरन् साश्रुलोचनः ॥ १५९ ॥ तैरेवाथुजलैर्भ्रातुः सिक्तो वक्षसि शार्ङ्गभृत् । लब्धसंज्ञः समुत्तस्थौ तिष्ठ तिष्ठेत्यरिं वदन् ॥ १६० ॥ उत्थायादाय तच्चक्रं कालचक्रमिव द्विषाम् । हरिर्मेरकमित्यूचे दृष्टः स्मेरेक्षणैर्निजैः ।। १६१ ॥ इदं सर्वा सर्वस्वं जीवितव्यमिदं च ते । तद्गतं पश्यतोऽप्यद्य शिरोरत्नमहेरिव ॥ १६२ ॥ कस्य तिष्ठस्वष्टम्भाद् गच्छ गच्छाधुना ननु । हन्ति स्वयम्भूर्न परान् समरादपगच्छतः ॥ १६३ ॥ मेरकोऽप्यब्रवीन्मुञ्च पश्यौजोऽस्य स्वमप्यहो ! । नाभूत् पत्युः कलत्रं या सा स्यादुपपतेः कथम् १ ॥ १६४ ॥ इत्युक्तः शार्ङ्गभृचक्रं भ्रमयित्वा मुमोच तत् । लीलया मौलिकमलं मेरकस्य चकर्त च ।। १६५ ।। स्वयम्भुवश्चोपरिष्टात् पुष्पवृष्टिर्दिवोऽपतत् । तथैव पृथिवीपृष्ठे कंबन्धो मेरकस्य च ॥ १६६ ॥ नृपैश्च मेरकायत्तैः स्वयम्भूः शिश्रिये क्षणात् । जन्ययात्रा हि सैवाभूत् परमन्यतरो वरः ॥ ततश्च साधयामास भरतार्थं सदक्षिणम् । दधद् दक्षिणपाणिस्थं चक्रं दिक्चक्रजित्वरम् ॥ दिग्यात्राया न्यवर्तिष्ट स्वयम्भूर्भूर्जयश्रियः । भरतार्धश्रिया स्वैरं रममाणो नवोढया ।। गच्छन् मार्गे शार्ङ्गपाणिर्मगधेषु ददर्श च । शिलां कोटिनरोत्पाट्यां कपालपुटवद् भुवः ॥ वामेनोत्पाटयामास बाहुना तामंधोक्षजः । लीलयाऽपि वसुमतीमधिभूः फणिनामिव ॥ १७१ ॥ शिलां तां न्यस्य तत्रैव दोष्मतां चित्रमादधत् । ययौ दिनैः कतिपयैः पुरीं द्वारवतीं हरिः ॥ १७२ ॥ तत्र रुद्रेण भद्रेण पार्थिवैरपरैरपि । स्वयम्भुवोऽर्धचक्रित्वाभिषेकोऽकारि सोत्सवैः ॥ १७३ ॥ वर्षद्वितयं छद्मस्थो विमलप्रभुः । विहृत्य दीक्षोपवनं सहस्राम्रवणं ययौ ॥ १७४ ॥ तत्र जम्बूले भर्तुरपूर्वकरणक्रमात् । क्षपकश्रेण्यारूढस्य घातिकर्माणि तुत्रुदुः ॥ १७५ ॥ षष्ट्यां सितायां पौषस्योत्तरभद्रपदासु भे । उदभूत् केवलज्ञानं षष्ठेन तपसा प्रभोः ॥ १७६ ॥ दिव्ये समवसरणे विदधे देशनां विभुः । गणेशाः सप्तपञ्चाशच्चाभूवन् मन्दरादयः ॥ १७७ ॥ तत्तीर्थेऽभूत् षण्मुखाख्यो यक्षः शिखिरथः सितः । दक्षिणैः फलचक्रेषुखङ्गपाशाक्षसूत्रिभिः ॥ १७८ ॥ वामैः सनकुलचक्रकोदण्डफलकांशुकैः । अभीदेन च दोर्दण्डैर्भर्तुः शासनदेवता ॥ १७९ ॥ तथोत्पन्ना विदिताख्या हरितालसमद्युतिः । पद्मारूढा वाणपाशधरदक्षिणपाणिका ॥ १८० ॥ कोदण्डनागसंयुक्तदक्षिणेतरबाहुका । श्रीमद्विमलनाथस्य जज्ञे शासनदेवता ॥। १८१ ॥ ताभ्याममुक्तसां निध्यस्ततः स्थानाज्जगद्गुरुः । विहरन्नन्यदा द्वारवत्याः परिसरं ययौ ।। १८२ ॥ शक्राद्यैस्तत्र समवसरणं विदधेऽमरैः । विंशत्यग्रधनुः सप्तशतोच्चाशोकपादपम् ।। १८३ ॥ तत्र प्रविश्य प्राग्द्वारा भगवां चैत्यपादपम् । त्रिः प्रदक्षिणयामास पालयन्नाहतीं स्थितिम् ॥ १८४ ॥ 'तीर्थाय नमः' इत्युक्त्वा पूर्वाशाभिमुखं ततः । सिंहासनमलञ्चङ्के धर्मचक्री त्रयोदशः ।। १८५ ।। यथाद्वारं प्रविविशुर्यथास्थानं स्थितिं व्यधुः । साधवोऽथार्थिका देवा देव्यो नार्यो नरा अपि ॥ १८६ ॥ 30 तदा च द्वारकां गत्वा त्वरितं राजपूरुषाः । स्वामिनं समवसृतं शशंसुः शार्ङ्गपाणये ॥ १८७ ॥ स्वाम्यागमनशंसिभ्यः स्वयम्भूः पारितोषिके । सार्धा द्वादश रूप्यस्य कोटीः प्रमुदितो ददौ ।। १८८ ॥ स्वयम्भूः सह भद्रेण भद्राणामेककारणम् । शीघ्रं समवसरणं जगाम प्रविवेश च ॥ १८९ ॥ १ 'खडतालां' इति भाषायाम् । २ स्यन्दनो रथः । ३ क्षीबो मत्तः । ४ वत्स ! आश्वसिहि आश्वसिहि इति ५ आलम्बनात् । ६ जारस्य । ७ 'घड' इति भाषायाम् । ८ जम्यम् - युद्धम् । ९ स्थानं जयलक्ष्म्याः । * श्च मासद्धि" का० ॥ १२ मयूरवाहनः । १३ अभयदेन ।
चरन् - इति १० इन्द्रः ।
विभागः । ११ स्वामी ।
Jain Education International
For Private & Personal Use Only
३६१
5
10
20
25
www.jainelibrary.org
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370