________________
द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३५५ वटा-ऽश्वत्था-ऽऽमलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन हव्येन देवप्रीणनमानिनाम् ॥ ३४०॥ भुवि गोदोहकरणाद् रिष्टशान्तिकमानिनाम् । योषिद्विडम्बनाप्रायव्रतधर्मोपदेशिनाम् ॥ ३४१॥ जटापटल-भस्माङ्गराग-कौपीनधारिणाम् । अर्क-धत्तूर-मालूरैर्देवपूजाविधायिनाम् ॥ ३४२॥ कुर्वतां गीतनृत्यादि पुतौ वादयतां मुहुः । मुहुर्वदननादेनाऽऽतोद्यनादविनोदिनाम् ॥ ३४३॥ असभ्यभाषापूर्वं च मुनीन् देवान् जनान् प्रताम् । विधाय व्रतभङ्गं च दासीदासत्वमिच्छताम् ।।३४४॥ 5 अनन्तकायकन्दादि-फल-मूल-दलाशिनाम् । कलत्र-पुत्रयुक्तानां वनवासजुषामपि ॥ ३४५॥ भक्ष्याभक्ष्ये पेयापेये गम्यागम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् ॥३४६॥ अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क्व धर्मः क फलं तस्य तस्य वाख्यातता कथम् ॥ ३४७॥ जैनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् । आनुषङ्गिकमेवेदं मुख्यं मोक्षं प्रचक्ष्यते ॥ ३४८॥ ससहेतौ कृषौ यद्वत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम् ॥ ३४९ ॥ 10
एवं तां देशनां श्रुत्वा भूयांसः प्रावजञ्जनाः। प्राप द्विपृष्टः सम्यक्त्वं श्रावकत्वं च लागली ॥३५०॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां प्रभुः। द्वितीयां पौरुषी यावत् सूक्ष्मो गणधरो व्यधात् ॥३५१॥ ततः स्थानादथान्यत्र विजहार जगद्गुरुः । स्थानं निजनिजं जग्मुरिन्द्रोपेन्द्रबलादयः ॥ ३५२ ॥ द्वासप्ततिः सहस्राणि श्रमणानां महात्मनाम् । साध्वीनां लक्षमेकं तु संयमश्रीजुषां खलु ॥ ३५३॥ चतुर्दशपूर्वभृतां सहस्रं द्वे शते तथा । अवधिज्ञानिनां पञ्च सहस्राः सचतुःशताः ॥३५४॥ 15 मनःपर्यययुक्तानामेकषष्टिः शतानि तु । षष्टिः शतानि विमलकेवलज्ञानशालिनाम् ॥ ३५५ ॥ जाता वैक्रियलब्धीनां सहस्राणि दशैव हि । वादलब्धिमतां सप्तचत्वारिंशच्छतानि तु ॥ ३५६ ॥ श्रावकाणामुभे लक्षे सहस्रा दश पञ्च च । श्राविकाणां चतुर्लक्षी सपट्त्रिंशत्सहस्रिका ॥ ३५७ ॥ चतुःपञ्चाशतं वर्षलक्षाणां मासवर्जितम् । आकेवलाद् विहरतः परिवारः प्रभोरभूत् ॥ ३५८ ॥ ज्ञात्वा च मोक्षमासनं ययौ चम्पां जगत्पतिः । प्रपेदेऽनशनं तत्र पइभिर्मुनिशतैः समम् ॥ ३५९ ॥ 20 मासान्ते चाषाढशुक्लचतुर्दश्यां निशाकरे । उत्तरभद्रपदास्त्रे सशिष्योऽगाच्छिवं विभुः ॥ ३६० ॥ अष्टादशाब्दलक्षाणि कुमारत्वे व्रते पुनः । चतुःपञ्चाशदित्यायुर्लक्षा द्वासप्ततिः प्रभोः ॥ ३६१ ॥ श्रेयांसप्रभुनिर्वाणाद् वासुपूज्यस्य निर्वृतिः। सागरेषु चतुःपञ्चाशत्यतीतेष्वजायत ॥ ३६२ ।। गीर्वाणेन्द्राः सगीर्वाणां निर्वाणमहिमोत्सवम् । स्वामिनः स्वामिशिष्याणामप्यकार्पुर्यथाविधि ॥ ३६३ ॥ द्विपृष्ठवासुदेवोऽपि महारम्भपरिग्रहः । मृगारिरिव निःशङ्को देववञ्च प्रमद्वरः ॥ ३६४ ।। भोगान् यथेच्छं भुञ्जानः पालयित्वायुरात्मनः । विपद्य षष्ठीमगमन्नरकोवीं तमःप्रभाम् ॥ ३६५ ॥
॥युग्मम् ॥ द्विपृष्टस्य कौमारेऽब्दलक्षं पादोनवर्जितम् । तदेव मण्डलीकत्वे दिग्जयेऽब्दशतं तथा ॥ ३६६ ॥ राज्ये सप्तत्यब्दलक्षी तथा नवशताधिका । वत्सरैकोनपञ्चाशत्सहस्रीत्यायुरूर्जितम् ॥ ३६७ ॥ बलभद्रोऽपि पादोनकोटिहायनजीवितः । तस्थौ कथञ्चिदेकाकी स्वभ्रातृस्नेहमोहितः ॥ ३६८ ॥ 30
श्रीवासुपूज्यवचनसरणेन बन्धुमृत्या च माढतरमेव भवाद् विरक्तः ।
आत्तव्रतो विजयसूरिपदाब्जमूले काले विपद्य च शिवं विजयो जगाम ॥ ३६९ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीवासुपूज्य-द्विपृष्ट-विजय-तारकचरितवर्णनो। नाम द्वितीयः सर्गः।
35
25
पुतम्-नितम्बस्य विशेषभावः। * विधायिनाम सं०॥ २ अन्तबासिनः शिष्याः। ३ सदेवाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org