________________
.३५४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थं पर्व खाख्यातः खलु धर्मोऽयं सर्वैरपि जिनोत्तमैः । यं समालम्बमानो हि न मजेद् भवसागरे ॥३०९ ॥ संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । शान्तिार्दवमृजुता मुक्तिश्च दशधा स तु ॥ ३१०॥ धर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् ॥ ३११॥
अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् । सदा संविधवाकबन्धुधर्मोऽतिवत्सलः ॥ ३१२ ॥ 5 आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः । यन्महीं स प्रभावोऽयं ध्रुवं धर्मस्य केवलम् ॥ ३१३ ॥
न ज्वलत्यनलस्तिर्यग् यदुवं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निवन्धनम् ॥ ३१४ ॥ निरालम्बा निराधारा विश्वाधारा वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ॥ ३१५ ॥ सूर्या-चन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥ ३१६ ॥
अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथो धर्मों विश्वैकवत्सलः ॥ ३१७ ॥ 10 धैर्मो नरक-पातालपातादवति देहिनः । धर्मो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् ॥ ३१८॥
अयं दशविधो धर्मो मिथ्याग्भिन वीक्षितः। योऽपि कश्चित् क्वचित् प्रोचे सोऽपि वामात्र नर्तनम् ॥३१९॥ तत्त्वार्थो वाचि सर्वेषां केषाञ्चन मनस्सपि । क्रियायामपि ननति नित्यं जिनमतस्पृशाम् ॥ ३२०॥ वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः। न लेशमपि जानन्ति धर्मरतस्य तत्वतः ॥ ३२१॥
गोमेध-नरमेधा-ऽश्वमेधाद्ययरकारिणाम् । याज्ञिकानां कुतो धर्मः प्राणिघातविधायिनाम् ॥ ३२२ ॥ 15 अश्रद्धेयमसद्भूतं परस्परविरोधि च । वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ? ॥ ३२३ ॥
असद्भूतव्यवस्थाभिः परद्रव्यं जिघृक्षताम् । मृत्-पानीयादिभिः शौचं स्मार्तादीनां कुतो ननु ? ॥ ३२४ ॥ तकालव्यतिक्रान्तौ भ्रणहत्याविधायिनाम । ब्राह्मणानां कुतो धर्मो ब्रह्मचर्यापलापिनाम?॥ ३२५॥ अदित्सतोऽपि सर्वस्वं यजमानाजिघक्षताम। अर्थाथै त्यजतांप्राणान क्वाऽकिञ्चन्यं द्विजन्मनाम?॥३२६॥ स्वल्पेष्वप्यपराधेषु क्षणाच्छापं प्रयच्छताम् । लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते? ॥ ३२७ ॥ जात्यादिमददुर्वृत्तपरिनर्तितचेतसाम् । क मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ? ॥ ३२८ ॥ दम्भसंरम्भगर्भाणां बकवृत्तिजुषां वहिः । भवेदार्जवलेशोऽपि पाखण्डव्रतिनां कथम् ? ॥ ३२९ ॥ गृहिणी-गृह-पुत्रादिपरिग्रहवतां सदा । द्विजन्मनां कथं मुक्तिो भैककुलवेश्मनाम् ॥ ३३०॥ अरक्त-द्विष्ट-सूढानां केवलज्ञानशालिनाम् । अनवद्या तत इयं धर्मस्वाख्या ततोऽर्हताम् ॥ ३३१ ।।
रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता । तदभावे कथं नामाहतां वितथवादिता ॥ ३३२ ॥ 25 ये तु रागादिभिर्दोषैः कलुपीकृतचेतसः । न तेषां समृता वाचः प्रसरन्ति कदाचन ॥ ३३३ ॥
तथा हि याग-होमादिकाणीप्टानि कुर्वताम् । वापी-कूप-तडागादीन्यपि पूर्वान्यनेकशः ॥ ३३४ ॥ पशूपघाततः स्वर्गिलोकसौख्यं विमार्गताम् । द्विजेभ्यो भोजनैर्दत्तैः पितृप्तिं चिकीर्षताम् ॥ ३३५ ॥ घृतंयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् । पञ्चस्वापत्सु नारीणां पुनरुद्वाहकारिणाम् ॥ ३३६ ॥
अपत्यासंभवे स्त्रीषु क्षेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् ॥ ३३७ ॥ 30 श्रेयोबुद्ध्यावरहतच्छागशिश्नोपजीविनाम् । सौत्रामण्यां सप्ततन्तौ सीधुपानविधायिनाम् ॥ ३३८ ॥
गूंथाशिनीनां च गवां स्पर्शतः पूतमानिनाम् । जलादिनानमात्रेण पापशुद्ध्यभिधायिनाम् ॥ ३३९ ॥
सु-सुष्टप्रकारेण, आख्यातः-कथितः-स्वाख्यातः। २ सविधम-समीपम्। * एतत्पद्यानन्तरं सं० प्रती पद्यमेतदधिक विद्यते-"रक्षोयक्षोरगव्यानव्यालानलगरादयः। नापकर्तुमलं तेभ्यो यैर्धर्मः शरणं श्रितः"॥ ३ कण्ठे सूत्रम्यज्ञोपवीतरूपं धरन्ति ते-द्विजाः। ४ अध्वरः यज्ञः। ५ स्मृतिम्-मनुस्मृति-प्रभृति-स्मृतिशास्त्रम्-अनुसरन्ति ते स्मार्ताः । * भकर्तृणाम् सं०॥ ६ 'शोधयताम्' षष्टी-बहुवचनम्-। ७ अपुत्रत्वे सति । ८ स्वभार्यायां कुलजेन अन्येन वा पुरुषेण पुत्रोत्पादनं वदन्ति तेषाम् । ९ ऋतुकाले आगतेन रजसा। १० 'सौत्रामणि'-'सप्ततन्तु' एतौ विशेषयज्ञौ। ११ गूथम्मलम्-विष्ठा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org