________________
३५३
द्वितीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् यात्रारम्भेण तेनैव भरता स दक्षिणम् । अशेष साधयामास साधीयःसाधनावृतः ॥ २७६ ॥ स मागध-वरदाम-प्रभासाधिपतीनपि । लीलयैवाजयद् देवानेकसामन्तमात्रवत् ॥ २७७ ॥ दिग्यात्राया निवृत्तोऽथ माधवो मागधान् ययौ । तत्र कोटिनरोत्पाट्यां ददर्श च महाशिलाम् ।। २७८ ॥ वैरिवामः स वामेन दोष्णा तामुदपाटयत् । आललाटं कमलिनी करीन्द्र इव लीलया ॥ २७९ ॥ सां निधाय यथास्थानमग्रणीः सर्वदोष्मताम् । प्रपेदे द्वारकां विष्णुर्दिनैः कतिपयैरपि ॥ २८०॥ 5 सिंहासनेऽध्यासितस्य ब्रह्मणा विजयेन च । विष्णोश्चक्रेऽर्धचक्रित्वाभिषेकोऽथाखिलैर्नृपः ॥ २८१ ॥
इतश्च मासं छद्मस्थो विहृत्य त्रिजगत्पतिः । दीक्षोद्यानं वासुपूज्यो विहारगृहमागमत् ॥ २८२ ।। पाटलाया अधो भर्तु_तिकर्माणि तुत्रुटुः । द्वितीय शुक्लध्यानान्ते तमांसीव निशात्यये ॥ २८३ ॥ माघशुक्लद्वितीयायां चन्द्रे शंतभिषग्जुपि । केवलज्ञानमुत्पेदे चतुर्थेन जिनेशितुः ॥ २८४ ॥
स्वामी दिव्ये च समवसरणे देशनां व्यधात् । सूक्ष्मादीनां गणभृतां षष्टिं षडधिकां तथा ॥ २८५।10 तत्तीर्थभूः कुमाराख्यो यक्षो हंसरथः सितः । मातुलिङ्ग-शरधरौ धारयन् दक्षिणौ करौ ॥२८६॥ । वामौ च नकुलधनुर्धारिणौ धारयन् भुजौ । वासुपूज्यजिनेन्द्रस्याभवच्छासनदेवता ॥ २८७ ॥ तथोल्पना श्यामवर्णा चन्द्रा नामाश्ववाहना । दक्षिणौ वरद-शक्तिधारिणौ दधती भुजौ ॥ २८८ ॥ पाणी पुष्प-गदायुक्तौ विभ्रती दक्षिणेतरौ । भर्तुः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ २८९ ॥ ताभ्यामधिष्ठिताभ्यों भगवान् विहरन् भुवम् । द्वारकायाः परिसरभुवमन्येधुराययौ ॥ २९० ॥ 15 शक्रायैस्तत्र समवसरणं निर्ममेऽमरैः । चत्वारिंशद् धनुरष्टशतोचाऽशोकपादपम् ॥ २९१॥ तत्र प्रदक्षिणीकृत्याशोकं तीर्थानतिं वदन् । सिंहासने निषसाद प्रामुखः परमेश्वरः ॥ २९२ ॥ प्रभोश्च प्रतिरूपाणि देवा दिक्ष्वपरास्वपि । विचक्रुस्त्रीणि तादृक्षाण्येवोच्चैस्तत्प्रभावतः ॥ २९३ ॥ न्यपीदच्च यथास्थानं श्रीमान् संघश्चतुर्विधः । मध्यवरे तु तिर्यश्चोऽधोवने वाहनानि तु ॥ २९४ ॥ तदा च राजपुरुषा द्रुतमभ्येत्य शाङ्गिणे । स्वामिनं समवसृतमाचख्युः फुल्लचक्षुषः ॥ २९५ ॥ 20 सार्धा द्वादश रूप्यस्य कोटीस्तेभ्यो ददौ हरिः । ययौ समवसरणं विजयेनान्वितस्ततः ॥ २९६ ॥ तत्र प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । आमाचकेऽनुशकं स समं लागलपाणिना ॥ २९७ ॥ भूयो नत्वा जगन्नाथं गिरा भक्तिसनाथया । स्तोतुमारेभिरे शक-द्विपृष्ठ-विजयास्ततः ॥ २९८ ॥
नितान्तभीषणमितः प्रसृतं मोहदुर्दिनम् । प्रतिक्षणमितश्वाशा वेला इव नवा नवाः ॥ २९९ ॥ महायाद इवेतश्च दुर्वारो मकरध्वजः । इतश्च विषयाः पापाः प्रौढा दृष्पवना इव ॥ ३०॥ इतः कषायाः क्रोधाद्या महावर्ता इबोल्बणाः । राग-द्वेषादयश्चेतो नगदन्ता इवोत्कटाः ॥ ३०१ ।। महोर्मय इवेतश्च नानादुःखपरम्पराः । इतश्चात-रौद्रध्यानमौर्वानल इवोच्चकैः ॥३०२॥ इतश्च ममता वेत्रवल्लीव स्खलनाऽऽस्पदम् । इतश्च व्याधयोऽनल्पा नक्रस्तोमा इवोद्धताः ॥ ३०३ ॥ असिन्नपारे संसारे पारावारेऽतिदारुणे । पतितानुद्धर चिरात् प्राणिनः परमेश्वर ! ॥३०४ ॥ परेषामुपकाराय केवलज्ञानदर्शने । तवेमे त्रिजगन्नाथ ! तरोः पुष्प-फले इव ॥ ३०५ ॥
30 कृतार्थमद्य मे जन्म कृतार्थो विभवोऽद्य मे । कर्त लेभे मयाऽयं यत त्वत्सपोमहोत्सवः ॥ ३०६॥ स्तुत्वेति तूष्णीं प्राप्तेषु सुरेन्द्रोपेन्द्र-सीरिपु । श्रीवासुपूज्यो भगवानारेभे देशनामिति ॥ ३०७॥ संसारसागरेऽमुष्मिन् शमिलायुगयोगवत् । कथञ्चित् प्राप्य मानुष्यं भाव्यं धर्मपरैनरैः ॥ ३०८॥
शत्रुप्रतिकूलः। २ शतभिषग्नक्षत्रयुते । ३ उपवासेन । ४ अभ्यर्णम्-समीपम् । ५ 'नमो तित्थस्स' इत्येवंरूपेण तीर्थप्रणामम् । ६ हलधरेण । ७ और्वानलः वडवानलः। ८ भाषायाम्-'मेतरनी वेल'। ९ नक्रः हिंस्रः जलचरविशेषः। १० सपर्या-पूजा। भाषायाम्-'समेल' या बलीवर्दयोक्त्रयोजने उपयुज्यते ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org