________________
10
३५२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व स प्रयाणैरविच्छिन्नैः क्रोधाध्मातोऽर्धचक्रभृत् । अर्धमार्गमलविष्ट द्रापिष्टमपि हि द्रुतम् ॥ २४६ ॥ सब्रह्म-विजयाऽनीकस्तत्र तस्याग्रतोऽपि हि । द्विपृष्ठोऽप्याहवोत्कण्ठी कैण्ठीरव इवाऽऽययौ ॥ २४७॥ अङ्गोच्छ्वासासकृत् त्रुट्यत्सर्वसन्नाहजालिकाः । द्वयोः संवर्मयामासुः सैनिकाः कथमप्यथ ॥ २४८ ॥ तयोरभूत् संप्रहारो महासंहारकारणम् । मृत्योरभ्यवहाराय महानसगृहोपमः ॥ २४९ ॥ निपेतुरुभयत्रापि लक्षशश्छत्रमौलयः । न संख्याऽप्यन्ययोद्धृणां पतितानामबुध्यत ॥२५० ॥ पुण्डरीकवती छत्रैः पूरिता रक्तवारिभिः । रणभूरभवत् क्रीडाँवापी पितृपतेरिख ॥ २५१ ॥ जैत्रं रथमथारुह्य द्विपृष्ठः पर्यपूरयत् । पाञ्चजन्यं जन्यजयाह्वानमत्रोपमध्वनिम् ॥ २५२ ॥ सिंहनादादिव मृगा हंसा इव धनखनात् । पाञ्चजन्यध्वनेस्तारात् त्रेसुस्तारकसैनिकाः ॥ २५३ ॥ त्रस्तान् स्वसैनिकान् दृष्ट्वा हेपंयित्वा निवर्त्य च । द्विपृष्ठं स्वयमभ्याट रथमारुह्य तारकः ॥ २५४ ॥ विजयेनान्वीयमानो लाङ्गलाऽयोनधारिणा । शाङ्गमारोपयच्छाङ्गी सुत्रामेवर्जुरोहितम् ॥२५५ ॥ अधिज्यधन्वा तदनु तारकोऽपीपुंधेरिघुम् । आकृष्य संदधे मृत्योरूर्जितामिव तर्जनीम् ॥ २५६ ॥ समोच तारकोऽपीषु हरिश्चिच्छेद चेषुणा । मोक्ष-च्छेदावितीपूणामभूतामसकृत् तयोः ॥ २५७ ॥ गदा-मुद्गर-दण्डादीन्यायुधान्यपराण्यापि । तारको यानि चिक्षेप प्रत्यस्तैस्तान्यहन हरिः ॥ २५८ ॥ तारकोऽथाग्रहीच्चक्रं क्रूरनकं रणोदधेः । द्विपृष्ठं चेत्यभाषिष्ट कोप-स्मितचलाधरः ॥ २५९ ॥ दार्विनीतो यद्यपि त्वं त्वां न हन्मि तथापि हि । चिरसेवकपुत्रोऽसि बालोऽसीत्यनुकम्पया ॥ २६०॥ विजयावरजोऽप्यूचे मितस्तबकिताधरः । अनुकम्पां शार्ङ्गपाणौ मयि कुर्वन् न लज्जसे ? ॥२६१॥ यद्यपि त्वं विपक्षोऽसि तथाऽप्यसि तितिक्षितः । जरसाऽऽसन्नमृत्योस्ते कः कर्ता मृतमारणम् ॥ २६२ ॥ अस्य चक्रस्य यद्याशा तदेतदपि मुञ्च भोः! । अकृतार्थीकृतेऽत्रापि गच्छेमुक्तस्तथाऽप्यसि ॥ २६३ ॥
इति द्विपृष्ठवचसा तिलाग्निरिव वारिणा । प्रदीप्तस्तारकश्चक्र भ्रमयामास मूर्धनि ॥ २६४ ॥ 20 नभसि भ्रमयित्वा तद् द्विपृष्ठाय मुमोच सः। जाज्वल्यमानं कल्पान्तविद्युत्वानिव विद्युतम् ॥ २६५॥
तत् तु तुम्बाग्रघातेन पपात हृदये हरेः । रूपान्तरपरावृत्तकौस्तुभश्रीविडम्बकम् ॥ २६६ ॥ क्षणं तेन प्रहारेण मृञ्छितः पतितो रथे । वीज्यते स विजयेनाञ्चलव्यजनपाणिना ॥ २६७॥ लब्धसंज्ञः क्षणाच्छाी रिपोश्चक्रं समीपगम् । जाँतभेदमिवामात्यं तदादायात्रवीदिदैम् ॥ २६८॥
चक्रं तवास्त्रसर्वखं दृष्टा तच्छक्तिरीदशी । जीवग्राहं याहि जीवन् नरो भद्राणि पश्यति ॥ २६९ ॥ 25 प्रत्यूचे तारकोऽप्येवं चक्रमेतन्मयोज्झितम् । "लेष्टुं श्वेव परिक्षिप्तं गृहीत्वा किं भर्षस्यहो ! ॥ २७० ॥
मुश्च मुश्च त्वमप्येतद् गृहीत्वाऽप्येष मुष्टिना । यदि वा चूर्णयिष्यामि ताडयित्वाऽऽमलोष्टंवत् ॥२७१॥ भ्रमयित्वाऽथ तच्छाी भ्राम्यदर्कभ्रमप्रदम् । खेचरांस्वासयचक्रं मुमोच प्रतिविष्णवे ॥ २७२ ॥ तारकस्य शिरस्तेन नलिनीनाललीलया । चिच्छेद पुनरापेते शाह्मिणः करकोटरे ॥ २७३ ॥
द्विपृष्ठस्योपरिष्टाच्च पुष्पवृष्टिः पपात खात् । तारकस्योपरि त्वन्तःपुरस्त्रीवर्गदृग्जलम् ॥ २७४॥ 30 नृपास्तारैकगृह्यास्तु वृत्तिमाश्रित्य वैतसीम् । अत्रायन्त द्विपृष्ठात् स्वं शक्तेष्वौपयिकं ह्यदः ॥ २७५ ॥
१ दीर्घतमम् । २ आहवः युद्धम् । ३ कण्ठीरवः सिंहः । ४ संवर्मयामासुः-सन्नाहं चक्रुः । ५ अभ्यवहारो भोजनम् । ६ महानसम्-रसवतीस्थानम् । ७ यमस्य । ८ जन्यम्-युद्धम् । ९ तारम्-उग्रम् । १० लजित्वा। ११ लाङ्गल-अयोध्नधारिणा, अयोध्न:-प्रहरणविशेषः । १२ सुत्रामा इव ऋजुरोहितम् इति पदविभागः। सुत्रामा-इन्द्रः 'ऋजुरोहितम्' धनुविशेषः । १३ 'इषुधेः इषुम्' इति विभागः। १४ प्रति-अस्त्रैः। १५ अहन् जघान । १६ अवरजः कनीयान् । १७ प्रलयमेघ इव । १८ जातः मेदः द्विधाभावः छेदो वा यत्र। * "दिति । सं०॥ जीवैय॒हम्-सं०॥ १९ लेष्टुः-भाषायाम्'-ढे'-ढेला' इति २. 'भषसि-अहो' इति विभागः । लोष्टुव सं०॥ २१ त्रासयत्-त्रासं कुर्वत् । रापच्च शा सं०॥ २२ भापते आपतितम् । २३ तारकपक्षीयाः। २४ वेतसवृत्तिः-नम्रता। अथायन्त द्विपृष्ठान्तं खं सं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org