________________
द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्
३५१ निमित्तीकृत्य चाचार्यमलवयात् पितृशासनात् । काले कला जगृहतुर्लीलया सीरि-शाह्मिणौ ॥ २१४ ॥ अलब्धमध्यौ धवलश्यामलौ तौ सहोदरौ । क्षीरोद-लवणाम्भोधी इवाऽभातां वपुम॒तौ ॥ २१५ ॥ नीलपीताम्बरधरौ तौ ताल-गरुडध्वजौ । मेनाते तारकस्याज्ञां बालावपि च न क्वचित् ॥ २१६ ॥ आज्ञातिक्रमदोर्वीयर्याधृष्यत्वादिकमेतयोः। दृष्ट्वा गत्वा तारकाय स्पशः स्पष्टमदोऽवदत् ॥ २१७॥ देव! द्वारवतीभर्तुस्तनयावतिदुर्मदौ । आज्ञां तव न मन्येते वाय्वग्नी इव तौ युतौ ॥ २१८॥ कौशलं सर्वशस्त्रेषु विद्यानामपि सिद्धयः । उदपद्यन्त दोर्दण्डस्थामालङ्करणं तयोः ॥ २१९ ॥ न चैतौ प्रतिभासेते देव ! त्वां प्रति शोभनौ । अतः परं यदुचितं तदाचर चरोऽस्म्यहम् ॥ २२० ॥ तारकः कोपतरलः प्रस्फुरन्नेत्रतारकः । आदिक्षदिति सेनान्यमसामान्यपराक्रमम् ॥ २२१ ॥ सर्वात्मनाऽपि सजित्वा पुरस्ताद् भट ! वादय । प्रयाणभम्भामद्यैव सामन्ताह्वानदृतिकाम् ॥ २२२ ॥ निहन्तव्यः सपुत्रोऽपि जिह्मधीब्रह्मभूपतिः । संजायते व्याधिरिव द्विपन विषमुपेक्षितः ॥ २२३ ॥ 10 अथैवं सचिवोऽवोचत् सम्यग्देवाञ्चधारय । अद्य यावत् स सामन्तः पतिर्वा ब्रह्मभूपतिः ॥ २२४ ॥ विना मिषमकाण्डेऽपि यात्रा तं प्रति नोचिता । एवं ह्यन्यकृतीनामपि शङ्काऽऽस्पदं भवेत् ॥ २२५ ॥ साशङ्के न हि विश्वासो विश्वासेन विना पुनः। मंत्रादेशादिकं नैव तद्विना स्वामिताऽपि का ? ॥२२६॥ कश्चिदुद्भाव्यतां तस्यापराधो व्यपदेशतः । सुलभः स हि दृप्तस्य तस्य पुत्रद्वयौजसः ॥ २२७ ॥ प्राणेभ्यो वल्लभीभूतान् करिणस्तुरगांश्च सः । याच्योऽन्यानि च रत्नानि प्रेष्य संदेशहारकम् ॥ २२८ ॥15 न चेत् प्रदास्यते तद् वः स वध्योऽनेन मन्तुना । नापवादो भवेल्लोके सापराधं निगृह्णताम् ॥ २२९ ॥ याचितं दास्यते वाऽथ तदान्वेष्यं छलान्तरम् । सर्वोऽपि सापराधो हि छलमन्विष्यते यदा ॥ २३० ॥ साधु साध्वित्यमात्यं तमभिधाय तदैव हि । ब्रह्मणे प्राहिणोद् दूतं रहः संदिश्य तारकः ॥ २३१ ॥ आशु गत्वा द्वारवत्यां ब्रह्माणं सदसि स्थितम् । विजयेन द्विपृष्ठेन चान्वितं स उपास्थित ॥२३२॥ प्रतिपच्या महत्या तमुपवेश्य स भूपतिः । चिरं सप्रेम चालप्य पप्रच्छाऽऽगमकारणम् ॥ २३३ ॥ 20 सोऽप्यूचे द्वारकानाथ ! त्वां संप्रत्यादिशत्यदः । स्वामी नस्तारको वैरिबाहुदापहारकः ॥ २३४ ॥ राज्ये त्वदीये ये केपि प्रवराः करिणो हयाः। यानि चान्यानि रत्नानि प्रेष्यन्तां तानि नः कृते ॥२३५॥ दक्षिणे भरतार्धे हि वस्तु यत् किश्चिदुत्तमम् । भरतार्धाधीश्वरस्य तन्ममैवापरस्य न ॥ २३६ ॥ इत्युक्त्या कुपितः सद्यो मृगेन्द्र इव हक्कया । अभाषिष्ट द्विपृष्ठस्तं जिघत्सुरिव चक्षुषा ॥ २३७ ॥ ज्यायान् वंश्यो न सोऽस्माकं त्राता दाता न चापि सः । राज्यं निजं शासतां नः कथं स्वामी बभूव सः॥ 25 अथो मृगयतेऽसत्तो हस्त्यश्वादि भुजौजसा । भुजौजसा वयं तर्हि ततोऽपि मृगयामहे ॥ २३९ ॥ गच्छ दूताधुनैवासान् विद्धि तत्र समागतान् । हस्त्यश्वादि ग्रहीतुं त्वत्स्वामिनः शिरसा समम् ॥२४॥ इत्युत्कटकटुं वाचं द्विपृष्ठस्य निशम्य सः । रुषितस्त्वरितं गत्वा तारकाय न्यवेदयत् ॥ २४१॥ इभगन्धेन गन्धेभ इव विष्णुगिरा तया । श्रुतया तारकः क्रुद्धो यात्राभम्भामवादयत् ॥ २४२ ॥ सद्यः सैन्यानि सेनान्यः सामन्ता मत्रिणोऽपि च । राजानो बद्धमुकुटाः सुभटाश्च महारथाः ॥२४३ ।। 30 वीर्यकण्डूलदोर्दण्डाश्चिराय समरार्थिनः । सैनाभयोऽन्तकस्येव राजानमुपतस्थिरे ॥ २४४ ॥ महीकम्प-तडित्पात-काकरोलादिभिर्भृशम् । सूच्यमानाशुभोदोऽप्यचालीत् तारकस्ततः ॥ २४५॥
दूतः। * नान्यं महासेनाप-सं०॥°स्तादथ वा सं०॥ २ जिह्मम्-वक्रम् । जत्तिा व सं०॥ ३ निमितम्। प्रकृतयः प्रधानादिराजमण्डलम् प्रजाश्च । ५ आशङ्कायुक्त। ६ मन्त्रः-आणा आदेशः माशा। . निमित्ततः।
दूतम् । ९ मन्तु:-अपराधः। १० एकान्ते। * "स्त युयुत्सु सं०॥ ११ जिघत्सुः-खादितुमिच्छुः । १२ असत्पात् । ३वत:-तव स्वामितः। १४ याचामहे। १५ गन्धप्रधानेन हस्तिना। १६ यात्राभम्भा-युद्धभेरिः। १७ सबान्धवाः। १८काकरोल: 'काका' इति काकध्वनिः भाषायाम्-'कागारोल' इति। १९ उदक:-भविष्यन् परिणामः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org..