________________
३५६
5
ॐ नमो विमलनाथाय निष्कर्मविमलात्मने । धर्मखाख्यात तागङ्गाप्रभवैकहिमाद्रये ॥ १ ॥ त्रयोदशार्हतस्तस्य चरित्रमिदमुच्यते । जगत्पवित्रीकरणं तीर्थोदकमिवामलम् ॥ २॥ धातकीखण्डद्वीपे प्राग्विदेहे विजये पुनः । भरताख्ये पुरीरत्नं नामतोऽस्ति महापुरी ॥ ३ ॥ तत्र पद्मागृहं पद्मसेनो नाम महीपतिः । अपां पतिरिवाधृष्योऽभिगम्यश्चाभवद् गुणैः ॥ ४ ॥ स्वशासनमिवावन्यां स चित्ते जैनशासनम् । अखण्डप्रसरं चक्रे धुर्यो बलिविवेकिनाम् ॥ ५ ॥ दुर्वेश्मनीव संसारे सोमुष्मिन् निवसन्नपि । सदैव धारयामास वैराग्यमधिकाधिकम् || ६ || स एवं भवनिर्विण्णः सर्वगुप्ताभिधं गुरुम् । ययौ महीरुहवरं मार्गखिन्न इवाध्वगः ॥ ७ ॥ 10 दीक्षां जग्राह तत्पार्श्वे सम्यक् तां प्रत्यपालयत् । 'रोरो धनमित्र प्राप्तमनात्मज इवात्मजम् ॥ ८ ॥ अर्हद्भक्त्यादिभिः स्थानैर्यथाविधिनिषेवितैः । ऊर्जितैरर्जयामास तीर्थकुन्नाम कर्म सः ॥ ९ ॥ चिरं तीव्रं तपस्तप्त्वा पूरयित्वाऽऽयुरात्मनः । मृत्वा कल्पे सहस्रारे महर्द्धिः सोऽमरोऽभवत् ॥ १० ॥
20
1
इतश्च जम्बूद्वीपेऽस्मिन् भरतक्षेत्रभूषणम् । पुरं काम्पील्यमित्यस्ति दिवः खण्डमिव च्युतम् ॥११॥ तत्र चैत्यानि चन्द्राश्म पुत्रिकाक्षरदम्बुभिः । कलयन्ति निशीथिन्यां यत्रधारागृहश्रियम् ॥ १२ ॥ 15 हैमाः कुम्भाः प्रभासन्ते तत्र गेहोर्ध्वभूमिषु । खर्णानान्याहितानीव निवासाय सदा श्रियः ॥ १३ ॥ विचित्र हर्म्यप्रासादजीकं तद्राजत । विधातुरालेख्यमिव सृजतो "दिविषत्पुरीम् ॥ १४ ॥ दैवेनाप्यभिभूतानां शरणार्थमुपेयुपाम् । वैज्रवर्मेव तत्राभूत् कृतवर्मेति भूपतिः ॥ १५ ॥ गङ्गाजलं तद्यशश्व स्पर्धयेव परस्परम् । परितः प्रीणयत् पृथ्वीं प्रपेदे निधिमम्भसाम् ॥ १६ ॥ नाभूत् पराङ्मुखो जातु याचकेष्विव सोऽरिषु । पराङ्मुखः परस्त्रीषु परनिन्दास्विवाभवत् ॥ १७ ॥ महविवस्वतस्तस्य समरे परिपन्थिनः । न सोढुमशकंस्तेजोऽन्धकारादिव निर्गताः ॥ १८ ॥ पादच्छाया सदा तस्य महावटतरोवि । कुब्जीभूय प्रणामेन सिषेवे वसुधाधर्वैः ।। १९ ।। बभूव तस्य श्यामेति श्यामेव तुहिनद्युतेः । सधर्मचारिणी सर्वशुद्धान्तमुखमण्डनम् ॥ २० ॥ कुलश्रीरिव सा मूर्त्ता सतीत्रतमिवाङ्गवत् । रूप-लावण्यलक्ष्मीणां प्रत्यक्षेवाधिदेवता ॥ २१ ॥ मन्दं मन्दं मराली देवी संचरति स्म सा । नित्यमेव पतिध्यानव्याकुलेनेव चेतसा ॥ २२ ॥ बभूव सा भूचरीषु स्त्रीष्वसाधारणा तथा । यथाऽर्हति स्म तत्सख्यं देवी श्रीरथवा शची ॥ २३ ॥ यत्र यत्र खामिनी सा चचार पृथिवीतले । तत्र तत्रान्वगालक्ष्मीर्यामिकीव दिवानिशम् ॥ २४ ॥
25
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं
तृतीयः सर्गः ।
श्रीविमलनाथचरित्रम् |
[ चतुर्थ पर्व
इतः कल्पे सहस्रारे पद्मसेनमहीपतेः । स जीवः पूरयामास स्वमायुः परमस्थिति ।। २५ ।। शुद्धद्वादश्यां राधस्योत्तरभद्रपदासु भे । सोऽथ च्युत्वा ततः श्यामा देवीकुक्षाववातरत् ॥ २६ ॥ मुखे प्रविशतस्तीर्थकरजन्माभिसूचकान् । श्यामादेवी महास्वनां चतुर्दश ददर्श सा ॥ २७ ॥ 30 पूर्णे काले माघशुक्ल तृतीयायां निशाकरे | उत्तरभद्रपदास्थे स्वोच्चस्थेषु ग्रहेषु च ॥ २८ ॥
1
१ स्वाख्याता - सुप्रसिद्धिः । २ लक्ष्मीस्थानम् । ३ अनुप्यः - अनभिभवनीयः । ४ अभिगम्यः - आश्रयणीयः । ५ निर्विण्णःखिनः । ६ दरिद्रः । ७ अपुत्रः । ८ पुत्रिका - पुत्तलिका | ९ रात्रौ । १० स्वर्गम् । १५ वज्रमयकवचः
१२ शत्रवः ।
१३ प्रतिहारी । १४ उत्कृष्ठस्थितिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org