________________
तृतीयः सर्गः 7
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
सुतं सूकरलक्ष्माणं तपनीयोपमद्युतिम् । ज्ञानत्रयधरं श्यामास्वामिनी सुषुवे सुखम् ॥ २९ ॥ स्वामिनः स्वामिमातुश्च सूतिकर्मैत्य सर्वतः । षट्पञ्चाशद्दिकुमार्यश्रेटिका इव चक्रिरे ॥ ३० ॥ एत्य शक्रो मेरुशैले नीत्वाऽङ्के न्यस्य च प्रभुम् । अतिपाण्डुकम्बलीस्थे सिंहासन उपाविशत् ॥३१॥ त्रयोदशं जिनेन्द्रं तं सुरेन्द्रा अच्युतादयः । त्रिषष्टिः स्त्रपयामासुः क्रमशस्तीर्थवारिभिः ॥ ३२ ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्त्रपयञ्जलैः । वृषशृङ्गोत्थितैः शैलशृङ्गोत्थैरिव निर्झरैः ॥ ३३ ॥ स्वामिनं देवदुष्येण वाससा वासवः स्वयम् । आर्द्र स्नानीयपानीयैर्माणिक्यवदमार्जयत् ॥ ३४ ॥ गोशीर्षचन्दनैः श्यामानन्दनं नन्दनाहृतैः । स व्यलिम्पद् वपुर्लग्नं देवदूष्यभ्रमप्रदैः ॥ ३५ ॥ विचित्रैर्दामभिर्दिव्यैर्वस्त्रालङ्करणैरपि । अर्चित्वाऽऽरात्रिकं कृत्वा प्रभुं शक्रोऽस्तवीदिति ॥ ३६ ॥ मोहेन तिमिरेणेव परितोऽपि प्रसारिणा । नितान्तकोपनैर्नक्तञ्चरैरिव जटाधरैः ॥ ३७ ॥ बुद्धिसर्वस्वहरणैश्चार्वाकैस्तस्करैरिव । अत्यन्तमायानिपुणैर्गोमायुभिरिव द्विजैः ॥ ३८ ॥ भ्रमद्भिर्मण्डलीभूय कौलाचार्यैर्वृकैरिव । उलूकैरिव पाखण्डैर्वल्गद्भिरपरैरपि ॥ ३९ ॥ सिद्धेनेव विवेकाक्षं मिथ्यात्वेन विलुम्पता । सद्भूतानां पदार्थानामविज्ञानेन सर्वतः ॥ ४० ॥
*
१ तपनीयम् - सुवर्णम् । इति भाषायाम् । ३ शृगालैः कर्मैव रुग- तस्मिन् औषधरूपाः ।
।
४८ ॥ 20
भूरिमयं कालो यामिन्येव जगत्पते ! । प्रभातं त्वधुना जज्ञे त्वया नाथेन भाखता ॥ ४१ ॥ त्वत्पादपद्यामासाद्य लङ्घितालङ्घिता खलु । निम्नैरपि हि संसारनिम्नगा निम्नगा जनैः ॥ ४२ ॥ भवच्छासननिःश्रेणिमधिरुह्या चिरादपि । मन्येऽध्यासितमेवोच्चैर्लोकाग्रं भव्यजन्तुभिः ॥ ४३ ॥ अस्माकमप्यनाथानां चिरान्नाथोऽस्युपस्थितः । निदाघातपतप्तानां पान्थानामिव वारिदः ॥ ४४ ॥ इत्थं त्रयोदशं तीर्थकरं स्तुत्वा पुरन्दरः । गत्वा यथागतं श्यामास्वामिनी पार्श्वतोऽमुचत् ॥ ४५ ॥ शक्रः स्वामिगृहान्मेरोस्त्वन्येन्द्राः स्वं स्वमास्पदम् । प्रययुः कृतकल्याणयात्राः सायात्रिका इव ॥ ४६ ॥ नरेन्द्रः कृतवर्माऽपि शर्मवान् विश्वशर्मदम् । ऋद्ध्या महत्या विदधे सूनोर्जन्ममहोत्सवम् ॥ ४७ ॥ गर्भस्थे जननी तस्मिन् विमला यदजायत । ततो विमल इत्याख्यां तस्य चक्रे पिता स्वयम् ॥ arat सुरस्त्रीभिर्लाल्यमानो जगत्पतिः । सुरैश्च स्वयोभूय रम्यमाणो व्यवर्धत ॥ ४९ ॥ षष्टिधन्वोन्नतः स्वामी क्रमेण प्राप यौवनम् । अष्टोत्तरसहस्रेण लक्षणानां च लक्षितः ॥ ५० ॥ स पित्रोरुपरोधेन भववैराग्यभागपि । राज्ञां पुत्रीरुपायंस्त भोग्यंकर्मरुगौषधीः ॥ ५१ ॥ कौमारे पञ्चदशाब्दलक्षी मुल्लय मेदिनीम् । अशात् पितृगिरा मान्या पित्राज्ञा ह्यर्हतामपि ॥ ५२ ॥ गतेषु वर्षलक्षेषु त्रिंशत्यवनिपालने । भवाब्धेस्तंरणे तरीं दीक्षावेलामचिन्तयत् ॥ ५३ ॥ सारस्वतप्रभृतयोऽभ्येत्य लोकान्तिकामराः । तीर्थं प्रवर्तय स्वामिन्नित्यूचुश्च जगद्गुरुम् ॥ ५४ ॥ ददौ च वार्षिकं दानं द्रविणैर्नृम्भकाहृतैः । याचकेभ्यो यथायाचं कल्पद्रुम इवावनौ ।। ५५ ।। दानान्ते विदधुर्दीक्षाभिषेकं विमलप्रभोः । विमलैर्निजमनोवत् सुमनः पतयोऽम्बुभिः ॥ ५६ ॥ आमुक्त दिव्यालङ्कारवस्त्रो दिव्यविलेपनः । शिविकां देवदत्ताख्यामारुरोह ततः प्रभुः ॥ ५७ ॥ सुरासुरनराधीशैः परितोऽपि समावृतः । तया शिविकया स्वामी सहस्राम्रवणं ययौ ॥ ५८ ॥ उद्यानपालबालाभिस्तदा शिशिर भीरुभिः । वेश्मप्रीत्या सेव्यमानलताकुञ्जपरम्परम् ।। ५९ ।। भविष्यदद्भुत श्रीकैर्माकन्दचकुलादिभिः । संह्यमानहिमानीकं तपस्यद्भिरिव द्रुमैः ॥ ६० ॥
८ शासनं चकार । + 'रणत संबृ० का० ॥ शेषाः । 1 °पि परावृ संबृ० का० ॥ १० सामाना हिमसंहतिः यस्मिन् तत् ।
त्रिषष्टि. ४६
Jain Education International
३५७
'लास्थासि सं० ॥ | 'यैरत्नस्तम्भमिवामृजत् । सं० ॥ २ लग्नम् - धृतम् ' लागेलु'
४ पथावर । ५ समुद्रयायिनः, नौवणिजः ।
६ समानवयोयुता भूत्वा । ७ भोग्यं
९ जृम्भका - त्रियग्जृम्भकाख्या देवनि -
For Private & Personal Use Only
5
10
15
25
30
www.jainelibrary.org