________________
३५८
10
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
चतुर्थ पर्व प्रत्यौः कूपपानीयैश्छायाभिर्वटभूरुहाम् । रिरंसुपौरद्वन्द्वानों निषिद्धशिशिरव्यथम् ॥ ६१ ॥ शीतातप्लवगैः पुञ्जीकृतगुञ्जाफलेक्षणात् । नागरस्त्रीविरचितसितज्योत्स्नातरङ्गितम् ॥ ६२ ॥ कृतसितमिव सेरलवलीकुन्दकोरकैः । प्रविवेश तदुधानं भगवान् विमलप्रभुः ॥ ६३॥
॥पञ्चभिः कुलकम् ।। शिबिकातः समुत्तीर्य त्यक्त्वा चाभरणादिकम् । स्कन्धे च वासवन्यस्तं देवदृष्यांशुकं दधत् ।। ६४॥ माघस्य शुक्लचतुर्थी जन्मऋक्षे परेऽहनि । समं नृपसहस्रेण षष्ठेन प्रानजत् प्रभुः ॥६५॥ युग्मम् ॥ द्वितीयेऽसि धान्यकटपुरे' जय नृपौकसि । पारणं परमानेन चकार विमलप्रभुः॥६६॥ विदधे विबुधैस्तत्र वसुधारादिपञ्चकम् । रत्नपीठं स्वामिपादस्थाने जयनृपेण तु ॥ ६७ ॥ ततः स्थानादथान्यत्र ग्रामाकरपुरादिषु । प्रावर्तत विहाराय छमस्थः परमेश्वरः ॥ ६८ ॥ ___ इतश्च जम्बूद्वीपेऽस्मिन् विदेहेष्वपरेषु च । नन्दितुलित्र आनन्दकर्या पुर्यामभून्नृपः ॥ ६९ ॥ चक्षुष्मानपि चक्षुष्मान् विवेकेन बभूव सः । ससहायश्च खङ्गेन महासैनिकवानपि ॥ ७० ॥ जन्मतोऽपि भवोद्विमो जानानः सर्वमस्थिरम् । दधार पैतृकं राज्यमपि पालयितुं क्रमम् ॥ ७१॥ मनसा प्रागपि त्यक्तं त्यक्त्वा राज्यमथान्यदा । प्रत्रयां सुव्रताचार्यपादान्ते स उपाददे ॥७२॥
विविधाभिग्रहधरश्चरित्वा दुश्वरं तपः । कृत्या चानशनं मृत्वाऽनुत्तरे समभूत् सुरः ॥ ७३ ॥ 15 अत्रैव जम्बूद्वीपे च पुर्यां भरतभूपणे । श्रावस्त्यां धनमित्राख्यो बभूव पृथिवीपतिः ॥ ७४॥
धनमित्रनरेन्द्रस्य स्नेहादतिथितां गतः । पुयां तत्रैव चावात्सीद् बलि म महीपतिः ॥ ७५ ॥ धनमित्रोऽन्यदा रेमेऽक्षयूतं बलिना समस् । अक्षीणबुद्धिविभवो गैमेन च चरेण च ॥ ७६ ॥ पत्तीनामिव सारीणां वध-बन्धपरौ मिथः । विपञ्चयामासतुस्तौ चूतं रणमिवोत्कटम् ॥ ७७ ॥
सर्वात्मना जेतुकामौ तावन्योऽन्यं नरेश्वरौ । स्वं पणीचक्रतू राज्यं द्यूतान्धानां कुतो मतिः ॥ ७८ ॥ 20 अथ हारितवान् राज्यं धनमित्रनृपो निजम् । रोरपुत्र इवाश्रीक एकाङ्गश्चाभवत् क्षणात् ॥ ७९ ॥
अवस्तुभूय स भ्राम्यन् कश्मलो जीर्णकर्पटः । भूताविष्ट इव प्राप सर्वत्राप्यवमाननाम् ॥ ८॥ सोटन्नितस्ततोऽन्येधुर्ददर्शर्षि सुदर्शनम् । पपौ च देशनां तस्माद् यूषं रोगीव लड्वितः ॥८१॥ प्रतिवुद्धः परिव्रज्यां जग्राह च तदन्तिके । चिरं च पालयामासापमानं तमविस्मरन् ॥ ८२ ॥
फलेन तपसोऽमुष्य वधाय बलिभूपतेः। भवान्तरेऽहं भूयासं निदानमपि स व्यधात ॥८३॥ 25 इत्थं कृतनिदानः सन् मृत्वाऽनशनकर्मणा । उदपायच्युते कल्पे प्रकृष्टायुःस्थितिः सुरः॥८४॥
यतिलिङ्गमुपादाय बलिः कालेन गच्छता । विपद्य समभूत् कल्पे महर्द्धिरमरोत्तमः ॥ ८५॥ च्युत्वा च भरतक्षेत्रे स नन्दनपुरेऽभवत् । देव्यां सुन्दयां समरकेसरिमापतेः सुतः ॥८६॥ स्निग्धाञ्जनद्यतिवपुः पष्टिधन्वोन्नताकृतिः। षष्टिवत्सरलक्षायरभाटद्भतविक्रमः॥८७॥
आवैताढ्यं प्रतापाढ्यो भरतार्धमसाधयत् । अभृच्च प्रतिविष्णुः स मेरकाख्योऽधचक्रभृत ॥८८॥ 30 वायोः पुर इवौजखी तेजखीव रवेः पुरः। न कोऽपि तस्य पुरतः प्रतिमल्लोऽभवन्नृपः ॥ ८९ ॥
दैवस्येव न तस्याज्ञां व्यत्यलशिष्ट कश्चन । रक्षाशिखाबन्धमिव मूनी सर्वेऽप्यधुः पुनः ॥९॥ __ इतश्च भरतक्षेत्रे द्वारकायामभूत् पुरि । समुद्र इव गम्भीरो रुद्रो नाम महीपतिः ॥ ९१ ॥
श्री-पृथिव्याविव साक्षात् सुप्रभा पृथिवीति च । तस्याभूतामुझे कान्ते कान्ते रूप-गुणश्रिया ॥ ९२ ॥ ___ *नां प्रशान्तशि° संवृ०॥ १ प्लवगा:-वानराः। ।रे नृपजयोक मु०॥ २ क्षीरेण । 'तैर्वलि संवृ.. ३-४ गम-चरौ चूतक्रीडा कलाभेदौ । ५ द्यूतक्रीडोपयुक्तं वस्तु सारीति कथ्यते । ६ मलिनः। ७ कर्पट:-'कपडु' इति भाषायाम् ८ अवमानात् । ९ रसम् । मपि म मु०॥ १० "निया' भाषायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org