________________
तृतीयः सर्गः ]
त्रिपटिशला कापुरुषचरित महाकाव्यम् ।
10
rial नन्दिमित्रस्य सोऽनुत्तरविमानतः । प्रच्युत्य सुप्रभादेव्या उदरे समवातरत् ॥ २३ ॥ चतुरोऽथ महास्वमान् हलसृजन्मसूचकान् । सुखसुप्ता निशाशेषे सुप्रभादेव्युदैक्षत ॥ ९४ ॥ ततो नवसु मासेषु दिनेष्वर्थाष्टमेषु च । सुप्रभा सुषुवे सूनुमनूनं शशितो रुचा ।। ९५ ।। भद्र इत्यभिधां तस्य विदधे रुद्रभूपतिः । कुलभद्रश्रिया सार्धं व्यवर्धिष्ट क्रमेण सः ।। ९६ ।। धनमित्रस्य जीवोsपि प्रच्युत्याच्युतकल्पतः । उत्पेदे पृथिवीकुक्षौ सरसीव सरोरुहम् ॥ ९७ ॥ साऽपि सप्त महास्मान् शार्ङ्गभृजन्मसूचकान् । सुखसुप्ता निशाशेषेऽपश्यत् प्रविशतो मुखे ॥ ९८ ॥ संपूर्ण समये साऽपि श्यामाङ्गमतिभासुरम् | असूत सूनुं वैर्यं वैरगिरिभूरिव ।। ९९ । स्वयम्भूरिति तस्यापि नामधेयं प्रमोदभाक् । विदधे रुद्रभूपाल उत्सवेन महीयसा ॥ १०० ॥ नित्यमेव हि धात्रीभिः पाल्यमानः स पञ्चभिः । व्यवर्धिष्ट समितिभिर्मुनेरिव तपोऽनवम् ॥ १०१ ॥ भद्र स्वयम्भुवौ प्रीत्या संगच्छेते स्म सर्वदा । प्रवाहाविव तौ गाङ्ग-यामुनौ श्वेतमेचकौ ॥ १०२ ॥ सेहिरे न तयोः पादघातान् राजकुमारकाः । तत्पादपरिघातेन भ्रश्यन्ति स्नादयोऽपि यत् ॥ १०३ ॥ नील-पीतांशुकभृतौ तौ ताल-गरुडध्वज । चलन्तौ क्रीडयाऽप्युव पर्यचालयतामिमाम् ॥ १०४ ॥ अभ्यासः सर्वशस्त्रेषु सर्वशास्त्रेषु चाभवत् । दोषीर्य-बुद्ध्योतारुण्यमिव लक्ष्मीविशेषकृत् ।। १०५ ।। पुरीपरिसरेऽन्येद्युः क्रीडन्तौ तावपश्यताम् । हस्त्यश्वकोशबहुलं सारखं शिविरं स्थितम् ॥ १०६ ॥ सुहृदा सुहृदाऽथवा । इति लाङ्गलिना पृष्टः प्रोवाच सचिवात्मजः ॥ १०७ ॥ भुजा शशिसौम्येन मेरकायार्धचक्रिणे । प्रेषितं प्राभृतमिदं दण्डे जीवितकाम्यया ।। १०८ ।। तच्छ्रुत्वा कुपितः शार्ङ्गपाणिरेवमवोचत । किं नः संपश्यमानानां दण्डस्तस्मै भविष्यति १ ॥ १०९ ॥ arat मेकः कोऽयं यः किलामा सत्स्वपि । पार्थिवान् दण्डयत्येवं द्रष्टव्यं तस्य पौरुषम् ॥ ११० ॥ गृह्यतां सर्वमप्येतदाच्छिद्य स्वयमोजसा । करमुत्क्षिप्य तानेवं स्वकीयानादिशद् भटान् ॥ गदामुद्गरदण्डाद्यैः शशिसौम्यस्य सैनिकान् । तद्भटास्ताडयामासुः फलितानिव पादपान् ॥ अतर्कितद्रोहिभिस्तैः प्रसुप्ता इव सौप्तिकैः । हन्यमानाः प्रणेशुस्ते प्राणानादाय काकवत् ॥ ११३ ॥ हस्त्यश्वाद्याददे पश्चात् तत्सर्वं शार्ङ्गपाणिना । क्षत्रियाणां गुणो ह्येष परश्रीहरणं हठात् ॥ ११४ ॥ ताभ्यामपहृतं द्रव्यं मेरायार्धचक्रिणे । शशंसुः शशिंसौम्यस्य नराः पूत्कारकारिणः ।। ११५ ।। तदाकर्ण्य परिक्रुद्धो निर्मर्याद इवान्तकः । मेरकोऽधिसभं भीमभ्रकुटीकोऽब्रवीदिति ॥ ११६ ॥ पादाहतिः खरेणेव पिण्डमत्तेन दन्तिनः । कुटुम्बिकसधर्मिण्या हालिकेनेव कुट्टनम् ॥ ११७ ॥ चपेटाघटनमिव मण्डूकेन फणाभृतः । स्वमृत्यवे कृतमिदमनात्मज्ञेन रौद्रिणा ॥ ११८ ॥ - पक्षोमः पीलिकानामिव पर्यन्तकारणम् । विपरीता मतिः पुंसां भवेद् दैवे पराङ्मुखे ॥ ११९ ॥ सपितृभ्रातरं नव्यभ्रातृव्यकमुपस्थितम् । हनिष्याम्येष तं दस्युभित्र प्राभृतहारिणम् ॥ १२० ॥ अथैकः सचिवोऽवोचद् बाल्यात् ताभ्यामिदं कृतम् । रुद्रेण भूभुजा दीर्घं सेवितोऽसीति मा कुपः ॥ १२१ ॥ मन्ये न संमतं राज्ञो रुद्रस्यैतद् भविष्यति । आरिराधयिषैवास्ति तस्य त्वां स्वामिनं प्रति ॥ १२२ ॥ स्वामिनः प्रथमे कोपे नद्याः पूरे च कः पतेत् । एवमाशङ्कया नूनं रुद्रभूपो विलम्बते ॥ १२३ ॥ देव ! प्रसीदादिश मां तदभीतिं प्रयच्छं च । आनेष्यामि प्राभृतं तत् सविशेषमहं ततः ॥ १२४ ॥
१११ ॥
११२ ॥
30
* ये विडू° सं० ॥ १ समितयः--र्यादयः पञ्च । २ मेचक:-कृष्णः । ३ बराक:- 'रोक' 'बीचारो' इति भाषायाम् ।
४ अपहृत्य ।
६ हालिक:- हलभृत् 'खेडूत' इति भाषायाम् । ७ पिपी५ सुप्तेष्वाक्रामकैः । शिसौम्यीया न सं० ॥ लिकानां पक्षोत्पत्तिर्म रणसंसूचिका - इति भावार्थः । ८ आराधयितुमिच्छ । च्छत । आ' का० च्छ वा । आ° सं० ॥
Jain Education International
३५९
For Private & Personal Use Only
5
15
20
25
www.jainelibrary.org