________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्थं पर्व आमित्युक्तो मेरकेण स द्रुतं द्वारकां ययौ । भद्र-स्वयम्भूसहितं रुद्रं चैवमभापत ॥ १२५ ॥ किमेतत् तव पुत्राभ्यामज्ञानान्नृपते ! कृतम् । हन्यते न खलु श्वाऽपि स्वामिनो मुखलजया ॥ १२६ ॥ एवमप्यर्प्यतां सर्वं न ते दोषो भविष्यति । छादयिष्यत्यात्मजयोर्दोषमज्ञानतैव हि ॥ १२७ ॥
अथ स्वयम्भूरित्यूचे स्वामिभक्त्या भवानिदम् । तातं प्रत्यार्यभावेन चार्यधीर्वक्ति साधु तत् ॥१२८॥ 5 धीरीभूय निरीक्षध्वं तस्याच्छिन्नमिदं कियत् । आच्छेत्स्यामो महीं सर्वां वीरभोग्या हि भूरियम् ॥१२९।।
आर्यस्य बलभद्रस्य दोष्णोर्मम च को बलम् । सहिष्यते कृतान्तस्य कुपितस्येव संगरे ॥ १३० ॥ एकं तमेव हत्वाऽहं भोक्ष्येऽर्धभरतं स्वयम् । किमन्यैः कुट्टितैर्भूपैर्बहुभिः कीटकैरिव ॥ १३१ ॥ तेनापि दोर्बलेनात्तं भरतार्ध न पैतृकम् । तन्न्यायेन ममाप्यस्तु बलिनो बलिनामपि ॥ १३२॥
इत्युक्त्या विस्मितो भीतो हीतश्च सचिवोऽथ सः । गत्वा द्रुतं मेरकाय समाचख्यौ यथातथम् ॥१३३॥ 10 मत्तेभ इव संक्रुद्धस्तस्य दुःश्रवया गिरा । कम्पयन् क्ष्मां सैन्यभारैः प्रतस्थे भेरकस्ततः ॥ १३४ ॥
इतः स्वयम्भू रुद्रेण भद्रेण च समन्वितः । प्रतस्थे द्वारकापुर्याः कन्दरादिव केसरी ॥ १३५ ॥ जनयन्तौ जनक्षोभं भैरवी रौद्र-मेरको । राई-सौरी इवैकत्र क्रमेणाथ समेयतुः ॥ १३६ ॥ अभूच्छत्रप्रहाराग्निकरालितदिगन्तरः । तत्सैन्ययोः संप्रहारः ग्रहाण इव दारुणः ॥ १३७ ॥
खयम्भूः पूरयामास पाश्चजन्यमथ स्वयम् । अशेषद् द्विपदुच्चाटमन्त्रोपममहास्वनम् ॥ १३८ ॥ 15 पाञ्चजन्यध्वनेस्तस्मात् त्रेसुमेरकसैनिकाः । न हि केसरिबूत्कारं श्रुत्वा तिष्ठन्ति वारणाः ॥ १३९ ॥
सैन्यान् संस्थापयामास ताम्रचूडानिव स्वयम् । मेरको रथमारुह्य डुढौकेऽभिस्वयम्भुवम् ॥ १४० ॥ किं मुधा सैन्यसंहारेणेति व्याहारिणौ मिथः । आस्फालयामासतुस्तौ धनुरेकधनुधरौ ॥ १४१ ॥ उद्वाहमण्डपमिव विदधानी जयश्रियः । मार्तण्डच्छादिभिर्वाणजालैभवप्यवर्षताम् ॥ १४२ ॥ बाणवृष्ट्या बाणवृष्टिं तौ निराचक्रतुर्मिथः । विषं विषेणेव हुताशनेनेव हुताशनम् ॥ १४३ ॥ सहस्रशः शरकरैः प्रसरद्भिविराजिनौ । अर्काविवोद्गतौ द्वौ तौ ददृशाते भयङ्करौ ॥ १४४ ॥ पाणिर्गतागतं कुर्वन्निषङ्गधनुरन्तरे । अलक्ष्योऽलक्ष्यत तयोरुर्मिकातेजसैव हि ॥ १४५ ॥ पाणिस्तदैव तूणीरे तदैव हि धनुर्गुणे । पतन् द्वैरूप्यभृदिवाभात् तयोर्लघुहस्तयोः ॥ १४६ ।। बाणैरजय्यं ज्ञात्वाऽरि मेरकोऽस्त्रैर्गदादिभिः । ववर्ष कल्पान्तमरुच्छैलशृङ्गैरिवोद्धतैः ॥ १४७ ॥ तानि स्वयम्भूः प्रत्यौभस्मसादकरोद् द्रुतम् । दृग्ज्वालाभिः करालाभिश्चक्षुर्विष इवोरगः ॥१४८ ॥ रणपारं जिगमिषुश्चक्रं सस्मार मेरकः । व्याधस्य सिञ्चान इव पाणौ तस्यापतञ्च तत् ॥ १४९ ॥ उदीरयामास ततो मेरकोऽपि स्वयम्भुवम् । क्रीडया युध्यमानेन मयैवासि भेटीकृतः ॥ १५० ॥ एष छेत्स्यामि ते शीर्ष गच्छ गच्छाधुनाऽप्यरे । काकानां तस्कराणां च नश्यतां का ननु त्रपा! ॥१५१॥ स्वयम्भूरप्युवाचैवं क्रीडायुद्धं यदीदृशम् । प्रेक्ष्यं तत् कोपयुद्धं ते तदर्थ ह्यहमागमम् ॥ १५२ ।।
आच्छिन्दन्तो द्विपां लक्ष्मी चीराश्चेत् तस्करास्तदा । प्रथमस्तस्करोऽसि त्वं प्रदत्ता तव केन सा ॥१५३॥ 30 मुक्त्वाऽपि चक्रं नष्टव्यं यत् त्वयाऽद्यापि नश्यताम् । काकानां तस्कराणां च नश्यतां का ननु त्रपा? ॥१५४॥
मुश्च मुश्चाथवा चक्र बलमस्यापि दृश्यताम् । अपि ते म्रियमाणस्य नानुतापो यथा भवेत् ॥ १५५॥ इत्युक्तो मेरकश्चक्रं व्योम्नि भौममिवापरम् । ज्वालाजालकरालं तद् भ्रमयित्वाऽमुचद् द्विपि ॥ १५६ ॥
20
सौरिः-शनिः। २ प्रलयकाल इव; "हार इ" संबृ. का०॥ ३ गजाः। ४ कुक्कटान् । ५ वादिनी। * धनुर्व(ई)रघ संबृ०॥ द्भिश्चिराजनैः। अ' का०; जितौ। अ. संवृ०॥ ६ इषङ्गः- भाथु इति भाषायाम् । ७ अमिका-अङ्गुली । . 'सींचाणो' इति भाषायाम् । ९ भटो योधः। १० अपहरन्तः। ११ लक्ष्मीः । १२ भङ्गलग्रहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org