________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३) वृक्षाग्रवासी न च पधिराजः
त्रिनेत्रधारी न च शूलपाणिः त्वग्वस्त्रधारी न च सिद्धयोगी
जलं च विभ्रन् न घटो न मेघः ॥६३६ ॥ चक्री त्रिशूली न हरो न विष्णु
महान् बलिष्ठो न च भीमसेनः । स्वछन्दचारी नृपतिर्न योगी
सीतावियोगी न च रामचंद्रः ॥९३७ ।। अणोरणीयान् महतो महीयान् ___ योगे वियोगे दिवसः प्रियस्य । यज्ञोपवीतं परमं पवित्रं
स्पृष्ट्वा सखे सत्यमहं ब्रवीमि ॥३८॥ यस्य षष्ठी चतुर्थी च विहस्य च विहाय च । अंहं कथं द्वितीया स्याद् द्वितीया स्यामहं कथम् ॥ ९३९ ॥ अकुबेरपुरीविलोकनं, न धरासूनुकरं कदाचन । अथ तत्प्रतिकारहेतवेऽदमयन्तीपतिलोचनं भज ॥ १४१ ॥
सुतं पतन्तं प्रसमीक्ष्य पावके ___ न बोधयामास पति पतिव्रता । तदाऽभवत् तत्पतिमक्तिगौरवात् हुताशनश्चंदनपङ्कशीतलः
॥ ६४२ ॥ राजाभिषेके मदविहलाया हस्ताच्च्युतो हेमघटस्तरुण्याः ।
For Private And Personal Use Only