Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 174
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६७) उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥११३९ ।। दरिद्रोऽपि नरो नूनं तमा नैव मुश्चति । निवारितोऽपि मार्जारस्तमा नैव मुञ्चति ॥११४० ॥ धीराणां भूषणं विद्या मन्त्रिणां भूषणं नृपः भूषणं च नयो राज्ञां शीलं सर्वस्य भूषणम् ॥ ११४१ ।। पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलम् । तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥११४२ ॥ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥११४३ ॥ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्वविहीनता । निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥ ११४४ ॥ सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥११४५ ॥ खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरत् सीता बन्धं प्राप्तो महोदधिः ॥ ११४६ ॥ यथाऽऽमिषं जले मत्स्यैर्भक्ष्यते श्वापदैः स्थले । आकाशे विहगैश्चैव तथा सर्वत्र वित्तवान् ॥११४७ ॥ जायते नरकः पापात् पापं दारिद्यसम्भवम् । दारिद्यमप्रदानेन तस्माद् दानपरो भव ॥११४८ ॥ दारिद्रान् भर कौन्तेय मा यच्छ प्रभवे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥११४६ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228