Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् । श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥११२८।। नरस्याभरणं रूपं रूपस्याभरणं गुणः। गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥११२९ ।। प्रात्मनो मुखदोषेण बध्यन्ते शुकसारिकाः । बकास्तु नैव बध्यन्ते मौनं सर्वार्थसाधनम् ॥ ११३० ॥ महो दुर्जनसंसर्गान्मानहानिः पदे पदे । पावको लोहसङ्गेन मुद्गरैरभिहन्यते ॥११३१ ।। एकोऽपि गुणवान् पुत्रो निर्गुणैः किं शतैरपि । एकश्चन्द्रो जगन्नेत्रं नक्षत्रैः किं प्रयोजनम् ॥११३२ ।। दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्प च गृहे वासो मृत्युरेव न संशयः ॥११३३ अनदानं महादानं विद्यादानं महत्तरम् । अन्नन क्षणिका तृप्तिर्यादजीवं तु विद्यया ॥११३४ ॥ कवयः किं न पश्यन्ति किं न खादन्ति वायसाः मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति दुर्जनाः।।११३५॥ जनिता चोपनेता च विद्यायाश्च प्रदायकः । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥११३६ ।। पादपानां भयं वातात् पद्मानां शिशिराद् भयम् । पर्वतानां भयं वज्रात् साधूनां दुर्जनाद् भयम् ॥११३७।। उद्योगः खलु कर्तव्यः फलं मार्जारवद् भवेत् । जन्मप्रभृति गौनास्ति पयः पिबति नित्यशः ॥११३८॥
For Private And Personal Use Only

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228