Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७५ ) कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ १२२२ ॥ स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च । न हि चूडामणिः पादे नू पुरं मूनि धार्यते ॥१२२३ ॥ न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । विश्वस्यात् तत्र न प्राज्ञो यदीच्छेच्छेय आत्मनः ॥१२२४॥ सद्भिः सम्बोध्यमानोऽपि दुरात्मा पापपूरुषः । घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥१२२५ ॥ गुणानामन्तरं प्रायस्तज्झो जानाति नेतरः। मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनम् ॥ १२२६ ॥ सद्विद्या यदि का चिन्ता वराकोदरपूरणे । शुकोऽप्यशनमामोति राम रामेति वै ब्रुवन् ॥ १२२७॥ विदुषां वदनाद् बाचः सहसा यान्ति नो बहिः । याताश्चेन्न पराश्चन्ति द्विरदानां रदा इव ॥१२२८ ॥ उदये सविता रक्तो रक्तश्चास्तमने तथा ।। सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥१२२९ ॥ श्लोको वै श्लोकतां याति यत्र तिष्ठन्ति साधवः । लकारो लुप्यते तत्र यत्र तिष्ठन्त्यसाधवः ॥१२३० ।। सजना एव साधूनां प्रथयन्ति गुणोत्करम् । पुष्पाणां सौरमं प्रायस्तनुते दिक्षु मारुतः ॥१२३१ ॥
१ तत्र शोको भवति, इत्यर्थः
For Private And Personal Use Only

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228