Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८५) चित्ते भ्रान्तिर्जायत मद्यपानाद्
भ्रान्ते चित्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं याति मूढ__ स्तस्मान्मद्यं नैव पेयं न पेयम् ॥१३११ ॥ ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो । ज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे व्ययः॥ अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता । सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥१३१२ ॥ सन्ति स्वादुफला वनेषु तरवः स्वच्छं पयो नैझरं । वासो वल्कलमाश्रयो गिरिगुहा शय्या लतावल्लरी ॥ मालोकाय निशासु चन्द्रकिरणाः सख्यं कुरङ्गैः सह । स्वाधीने विभवेऽप्यहो धनपति सेवन्त इत्यद्भुतम् ॥१३१३।। केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला । न स्नानं न विलेपनं न कुसुमं नालङ्कता मूर्धजाः ॥ वाएयेका समलङ्करोति पुरुष या संस्कृता धार्यते । क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।।१३१४॥ ब्रह्मचारी का कामदेव को उपालम्भकाम ! जानामि ते रूपं, सङ्कल्पात् किल जायसे । न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ॥१३१५॥ नारकीयों को कैसा दुःख है ? श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् ।
For Private And Personal Use Only

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228