Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 189
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८२) देहीति वचनं श्रुत्वा देहस्थाः पञ्च देवताः । मुखानिर्गत्य गच्छन्ति श्रीहीधीधृतिकीर्तयः ॥ १२८६ ।। यस्य नास्ति विवेको वै केवलं यो बहुश्रुतः । न स जानाति शास्त्रार्थान् दर्वी पाकरसानिव ॥ १२८७ ॥ चितां प्रज्वलितां दृष्ट्वा वैद्यो' विस्मयमागतः । नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ॥१२८८ ॥ नालिकेरसमाना हि दृश्यन्ते खलु सञ्जनाः।। भन्ये बदरिकातुल्या बहिरेव मनोहराः ॥१२८९ ॥ त्याग एको गुणः श्लाध्यः किमन्यैर्गुणराशिमिः । त्यागाजगति पूज्यन्ते नूनं वारिदपादपाः ॥१२९० ।। दानोपभोगरहिता दिवसा यस्य यान्ति वै । स लोहकारभनव श्वसनपि न जीवति ॥१२६१ ॥ कुसुमस्तबकस्येव द्वे गतीह मनस्विनः ।। मूनि वा सर्वलोकस्य शीर्यते वन एव वा ॥ १२६२ ॥ गुणेन स्पृहणीयः स्यान रूपेण पुनर्जनः । गन्धहीनं न गृह्णाति पुष्पं कान्तमपीह नो ॥१२६३ ॥ योजनानां सहस्रं वै शनैर्गच्छेत् पिपीलिका । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥१२६ ॥ नाऽसत्यवादिनः सख्यं न पुण्यं न यशो भुवि । दृश्यते नापि कन्याणं कालकूटमिवाश्नतः ॥१२६५ ॥ १ 'कुवैद्यः' इत्यर्थः । २ मनुष्यः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228