Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६९) विदेशेषु धनं विद्या व्यसनेषु धनं मतिः। परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥११६० ॥ लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥११६१॥ क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा । क्षमया जीयते लोकः क्षमया किं न सिद्ध्यति ॥ ११६२ ॥ दुर्बलस्य बलं राजा बालानां रोदनं बलम् । बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ॥११६३ ।। उपकारः परो धर्मः परार्थकर्म नैपुणम् । पात्रदानं परं सौख्यं परो मोक्षो वितृष्णता ॥११६४ ॥ दुर्मन्त्री राज्यनाशाय ग्रामनाशाय कुञ्जरः । श्यालको गृहनाशाय सर्वनाशाय दुर्जनः ॥११६५ ॥ उदारम्य तृणं वित्तं शूरस्य मरणं तृणम् । विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥११६६ ।। जननी जन्मभूमिश्च जाह्नवी च जनार्दनः । जनकः पञ्चमश्चैव जकाराः पञ्च दुर्लभाः ॥११६७ ॥ सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।। सत्येन वहते वायुः सत्यं सर्वस्य कारणम् ॥११६८ ॥ किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥११६९ ॥ कुस्थानस्य प्रवेशेन गुणवानपि पीड्यते । वैश्वानरोऽपि लोहस्थोऽयस्कारैरभिहन्यते ॥११७० ।।
For Private And Personal Use Only

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228