SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६९) विदेशेषु धनं विद्या व्यसनेषु धनं मतिः। परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥११६० ॥ लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥११६१॥ क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा । क्षमया जीयते लोकः क्षमया किं न सिद्ध्यति ॥ ११६२ ॥ दुर्बलस्य बलं राजा बालानां रोदनं बलम् । बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ॥११६३ ।। उपकारः परो धर्मः परार्थकर्म नैपुणम् । पात्रदानं परं सौख्यं परो मोक्षो वितृष्णता ॥११६४ ॥ दुर्मन्त्री राज्यनाशाय ग्रामनाशाय कुञ्जरः । श्यालको गृहनाशाय सर्वनाशाय दुर्जनः ॥११६५ ॥ उदारम्य तृणं वित्तं शूरस्य मरणं तृणम् । विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥११६६ ।। जननी जन्मभूमिश्च जाह्नवी च जनार्दनः । जनकः पञ्चमश्चैव जकाराः पञ्च दुर्लभाः ॥११६७ ॥ सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।। सत्येन वहते वायुः सत्यं सर्वस्य कारणम् ॥११६८ ॥ किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥११६९ ॥ कुस्थानस्य प्रवेशेन गुणवानपि पीड्यते । वैश्वानरोऽपि लोहस्थोऽयस्कारैरभिहन्यते ॥११७० ।। For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy