Book Title: Stotra Ras Samhita
Author(s): Lalitprabhsagar, Chandraprabhsagar, Bhanvarlal Nahta
Publisher: Siddhiraj Jain
View full book text
________________
मंत्राधिराज-स्तोत्र
जगदीश्वरम् । ॐ ह्रीं क्लीं श्रीं समायुक्तम्, केवलज्ञानभास्करम् ॥१९|| पद्मावत्यान्वितं वामे, धरणेन्द्रण दक्षिणे । परितोऽष्टदलस्थेन मंत्रराजेन संयुतम् ||२०|| अष्टपत्रस्थितैर्यस्य, नमस्कारैस्तथा त्रिभिः । ज्ञानाद्यर्वेष्टितं नाथं, धर्मार्थकाममोक्षदम् ॥२१॥ शतषोडशदलारूढं, विद्यादेवीभिरन्वितम् । चतुर्विंशतिपत्रस्थं, जिनं मातृसमावृतम् ॥२२॥ माया वेष्ट्यत्रयाग्रस्थं, क्रौंकारसहितं प्रभुम् । नवग्रहावृतं देवं, दिक्पालैर्दशभिवृतम् ॥२३॥ चतुष्कोणेषु मंत्राद्यचतुर्बीजान्वितैजिनः । चतुरष्टदशद्वीति द्विधाङ्कसंज्ञकैयुतम् ||२४|| दिक्षुक्षकारयुक्तेन, विदिक्षु लांकितेन च । चतुस्रण वज्राङ्क-क्षितितत्त्वे प्रतिष्ठितः ।।२५।। श्री पार्श्वनाथमित्येव, यः समाराधयेञ्जिनम् । तं सर्वपापनिर्मुक्तम्, मजते श्रीः शुभप्रदा ॥२६|| जिनेशः पूजितो भक्त्या, संस्तुतः प्रस्तुतोऽथवा । ध्यातस्त्वं यः क्षणं वापि सिद्धिस्तेषां महोदयः ॥२७॥ श्रीपार्वमन्त्रराजान्ते चिन्तामणिगुणास्पदम् । शान्तिपुष्टिकरं नित्यं, क्ष द्रोपद्रवनाशनम् ।२८। ऋद्धिसिद्धिमहाबुद्धि-धृतिश्रीकान्तिकीर्तिदम् । मृत्युञ्जयं शिवात्मानं जपन्नानन्दितो जनः ॥२९|| सर्वकल्याणपूर्णः स्यात्, जरामृत्युविवर्जितः । अणिमादिमहासिद्धिं लक्षजापेन चाप्नुयात् ||३०|| प्राणायाममनोमंत्र-योगादमृतमात्मनि।तमात्मानं शिवंध्यात्वात, स्वामिन् सिध्यन्ति जन्तवः ||३१|| हर्षदः कामदश्चेति
Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148