Book Title: Stotra Ras Samhita
Author(s): Lalitprabhsagar, Chandraprabhsagar, Bhanvarlal Nahta
Publisher: Siddhiraj Jain

View full book text
Previous | Next

Page 104
________________ श्री लघुशान्ति-स्तोत्र ९३ प्रधान-वाक्योपयोगकृततोषा । विजया कुरुते जनहितमितिच, नुता नमत तं शान्तिम् ॥६॥ भवतु नमस्ते भगवति ! विजये सुजये परापरैरजिते ! अपराजिते ! जगत्यां, जयतीति जयावहे ! भवति ! ||७|| सर्वस्यापि च संघस्य, भद्रकल्याणमंगलप्रददे ! साधूनां च सदा शिवसुतुष्टि-पुष्टिप्रदे जीयाः ||८|| मव्यानां कृतसिद्धे ! निवृत्तिनिर्वाणजननि सत्त्वानाम् । अभयप्रदाननिरते, नमोऽस्तु स्वस्तिप्रदे ! तुभ्यम् ||९|| भक्तानां जन्तूनां शुभावहे, नित्यमुद्यते देवि ! सम्यग्दृष्टीनां, धृतिरतिमतिबुद्धिप्रदानाय ||१०|| जिनशासननिरतानां शान्तिनताना चजगतिजनतानाम् । श्रीसम्पतकीर्तियशोवद्धिनि जय देवि ! विजयस्व ॥११il सलिलानल-विष-विषधर-दुष्टग्रह राज-रोग-रणभयतः । राक्षस-रिपुगण-मारि-चौरेति-श्वापदादिभ्यः ||१२|| अथ रक्ष रक्ष सुशिवं, कुरु कुरु शान्ति च कुरु कुरु सदेति । तुष्टि कुरु कुरु पुष्टि, कुरु कुरु स्वस्ति च कुरु कुरु त्वम् ॥१३॥ भगवति गुणवति ! शिवशान्ति-तुष्टिपुष्टीः स्वस्तीह कुरु कुरु जनानाम् । ओमिति नमो नमो हाँ ह्रीं हूँ, हः यः क्षः ह्रीं फुटफुट् स्वाहा ।१४|| एवं यन्नामाक्षरपुरस्सरं संस्तुता जया देवी। कुरुते शान्ति नमतां, नमो नमः शान्तये तस्मै ||१५|| इति पूर्वसूरिदर्शितमंत्रपद-विदर्मितः स्तवः शान्ते । सलिलादिमयविनाशी शान्त्यादिकरश्च भक्तिमताम्

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148