Book Title: Stotra Ras Samhita
Author(s): Lalitprabhsagar, Chandraprabhsagar, Bhanvarlal Nahta
Publisher: Siddhiraj Jain

View full book text
Previous | Next

Page 107
________________ स्तोत्र-रास-संहिता श्री जिनदत्तसूरि गुर्वष्टक-स्तोत्रम् __नमाम्यहं श्रीजिनदत्तसूरि गुणाकरं किन्नरपूज्यपादम् । यतीश्वरं तुष्टिकरं स्वरूपं लावण्यगात्रं बहुसौख्यकारम् । भूपा नरा ये प्रणमंति नित्यं तेषां मनीषां सफलीकरोति । लक्ष्मीर्यशो राज्यरतिं प्रसूते विद्यावरं श्रीललनासुखानि ||२|| भक्त्या नरा ये तव . पादसेवां कुर्वन्ति सत्पुत्र लमंत एव । न दुःखदौर्भाग्यभयं न मारिः स्मरंति ये श्रीजिनदत्तसूरिम् ॥३|| कविः स्वबुद्धया गुरुसंनिमोपि कस्ते गुणान् वर्ण यितुं समर्थः । तथापि त्वद्भक्तिरतो मुनींन्द्र करोमि किंचिद्गुणवर्णनं ते ॥४|| महार्णवे भूधरमस्तकेपि स्मरंति ये श्रीजिनदत्तसूरिम् । सुखैः सहायांति जनाः स्वधाम्नि ततौ भवंतं प्रणमामि कामम् |||| जैनाब्जसंबोधनपूर्णचन्द्रः सत्सेवके कामितकल्पवृक्षः। युगप्रधानं स्तुतसाधुसूरिं सूरीश्वरं श्रीजिनदत्तसूरिम् ॥६॥ न रोगशोका रिपुभूतयक्षा न वा ग्रहा राक्षसदेवः रोषां न पीडयंते तव नाममंत्रातस्मान्नराणां शिवदायकस्त्वम् ॥७॥ इदं गुरोरष्टक मुत्तमं यः प्रभातकाले पठते सदैव । किं दुर्लभं तस्य जगत्त्रयेपि सिध्यन्ति सर्वाणि समीहितानि |८.

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148