________________
स्तोत्र-रास-संहिता
श्री जिनदत्तसूरि गुर्वष्टक-स्तोत्रम्
__नमाम्यहं श्रीजिनदत्तसूरि गुणाकरं किन्नरपूज्यपादम् । यतीश्वरं तुष्टिकरं स्वरूपं लावण्यगात्रं बहुसौख्यकारम् । भूपा नरा ये प्रणमंति नित्यं तेषां मनीषां सफलीकरोति । लक्ष्मीर्यशो राज्यरतिं प्रसूते विद्यावरं श्रीललनासुखानि ||२|| भक्त्या नरा ये तव . पादसेवां कुर्वन्ति सत्पुत्र लमंत एव । न दुःखदौर्भाग्यभयं न मारिः स्मरंति ये श्रीजिनदत्तसूरिम् ॥३|| कविः स्वबुद्धया गुरुसंनिमोपि कस्ते गुणान् वर्ण यितुं समर्थः । तथापि त्वद्भक्तिरतो मुनींन्द्र करोमि किंचिद्गुणवर्णनं ते ॥४|| महार्णवे भूधरमस्तकेपि स्मरंति ये श्रीजिनदत्तसूरिम् । सुखैः सहायांति जनाः स्वधाम्नि ततौ भवंतं प्रणमामि कामम् |||| जैनाब्जसंबोधनपूर्णचन्द्रः सत्सेवके कामितकल्पवृक्षः। युगप्रधानं स्तुतसाधुसूरिं सूरीश्वरं श्रीजिनदत्तसूरिम् ॥६॥ न रोगशोका रिपुभूतयक्षा न वा ग्रहा राक्षसदेवः रोषां न पीडयंते तव नाममंत्रातस्मान्नराणां शिवदायकस्त्वम् ॥७॥ इदं गुरोरष्टक मुत्तमं यः प्रभातकाले पठते सदैव । किं दुर्लभं तस्य जगत्त्रयेपि सिध्यन्ति सर्वाणि समीहितानि |८.