________________
श्री गौतमाष्टकम्-स्तोत्र
९५
श्री गौतमाष्टकम्
. श्रीइन्द्रभूतिर्वसुभूतिपुत्रं पृथ्वीमनं गौतम-गोत्ररत्नम् । स्तुवन्ति देवाः सुरमानवेन्द्राः स गौतमो यच्छतु वाञ्छितं मे ||१|| श्रीवर्धमानस्त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन । अंगानि पूर्वाणि चतुर्दशापि स गौ० ॥२॥ श्रीवीरनाथेन पुरा प्रणीतं, मंत्रं महानंदसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्रा, स गौ० ॥३॥ यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षां भ्रमणस्य काले । मिष्टान्नपानाम्बर पूर्णकामाः, स गौ० ||४|| अष्टापदाद्रौ गगने स्वशक्त्या, ययौ जिनानां पदवंदनाय । निशम्य तीर्थातिशयं सुरेभ्यः स गौ० ||५|| त्रिपञ्चसंख्याशततापसानां तपः कृशानामपुनर्भवाय । अक्षीणलब्ध्या परमान्नदाता, स गो० ॥६॥ सदक्षिणं भोजनमेव देयं, साध'मिकं संघसपर्ययेति । कैवल्यवस्त्रं प्रददौ मुनीनां स गौ० ||७|| शिवंगते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रः, स गौ० ॥८॥ त्रैलोक्यबीज विज्ञानबीजं परमात्मबीजं परमेष्ठिबीजम् । यन्नाममंत्रं विदधे सुरेन्द्रः, स गौ० ॥९॥ श्रीगौतमस्याष्टकमादरेण प्रबोधकाले मुनिपुंगवा ये । पठन्ति ते सूरिपदं सदैवानन्दं लभन्तं सुतरां क्रमेण ||१०||