________________
श्री लघुशान्ति-स्तोत्र
९३
प्रधान-वाक्योपयोगकृततोषा । विजया कुरुते जनहितमितिच, नुता नमत तं शान्तिम् ॥६॥ भवतु नमस्ते भगवति ! विजये सुजये परापरैरजिते ! अपराजिते ! जगत्यां, जयतीति जयावहे ! भवति ! ||७|| सर्वस्यापि च संघस्य, भद्रकल्याणमंगलप्रददे ! साधूनां च सदा शिवसुतुष्टि-पुष्टिप्रदे जीयाः ||८|| मव्यानां कृतसिद्धे ! निवृत्तिनिर्वाणजननि सत्त्वानाम् । अभयप्रदाननिरते, नमोऽस्तु स्वस्तिप्रदे ! तुभ्यम् ||९|| भक्तानां जन्तूनां शुभावहे, नित्यमुद्यते देवि ! सम्यग्दृष्टीनां, धृतिरतिमतिबुद्धिप्रदानाय ||१०|| जिनशासननिरतानां शान्तिनताना चजगतिजनतानाम् । श्रीसम्पतकीर्तियशोवद्धिनि जय देवि ! विजयस्व ॥११il सलिलानल-विष-विषधर-दुष्टग्रह राज-रोग-रणभयतः । राक्षस-रिपुगण-मारि-चौरेति-श्वापदादिभ्यः ||१२|| अथ रक्ष रक्ष सुशिवं, कुरु कुरु शान्ति च कुरु कुरु सदेति । तुष्टि कुरु कुरु पुष्टि, कुरु कुरु स्वस्ति च कुरु कुरु त्वम् ॥१३॥ भगवति गुणवति ! शिवशान्ति-तुष्टिपुष्टीः स्वस्तीह कुरु कुरु जनानाम् ।
ओमिति नमो नमो हाँ ह्रीं हूँ, हः यः क्षः ह्रीं फुटफुट् स्वाहा ।१४|| एवं यन्नामाक्षरपुरस्सरं संस्तुता जया देवी। कुरुते शान्ति नमतां, नमो नमः शान्तये तस्मै ||१५|| इति पूर्वसूरिदर्शितमंत्रपद-विदर्मितः स्तवः शान्ते । सलिलादिमयविनाशी शान्त्यादिकरश्च भक्तिमताम्