________________
स्तोत्र-रास-संहिता
भगवन् ! भास्करो श्रियम् । अतिसौम्यतया चान्द्रीमहो ते भीमकान्तता |५|| विजित्य संसारमायाबीजं मोहमहीपतिम् । नरः स्यान्मुक्तिराजश्रीनायकस्त्वत्प्रसादतः ॥६॥ द्वादशांगीविधौ वेधाः श्रीन्द्रादिसुरसेवितः । अगण्यपुण्यनैपुण्यं तेषां साक्षात् कृतोऽसि यैः ।।७|| नमः स्वाहापतिज्योतिस्तिरस्कारितनुत्विषे । श्रीगौतमगुरो ! तुभ्यं वागीशाय महात्मने ॥८॥ इति श्रीगौतम ! स्तोत्र-मंत्रं ते स्मरतोऽन्वहम् । श्री जिनप्रमसूरेस्त्वं, भव सर्वार्थसिद्धये ॥९||
श्री लघुशान्ति-स्तव
शान्ति शान्ति-निशान्तं, शान्तं शान्ताऽशिवं नमस्कृत्य । स्तोतुः शन्ति-निमित्तं, मंत्रपदैः शान्तये स्तौमि ||१|| ओमिति निश्चितवचसे, नमो नमो भगवतेऽहते पूजाम् । शान्तिजिनाय जयवते, यशस्विने स्वामिने दमिनाम् ॥२|| सकलातिशेषक-महासम्पत्ति-समन्विताय शस्याय । त्रैलोक्यपूजिताय च, नमो नमः शान्तिदेवाय ॥३॥ सर्वामरसुसमूह-स्वामिक-सम्पूजिताय निजिताय । भुवनजनपालनोद्यततमाय, सततं नमस्तस्मै ॥४|| सर्वदुरितौघनाशनकराय, सर्वाऽशिवप्रशमनाय दुष्टग्रहभूतपिशाचशाकिनीनां प्रमथनाय !|| यस्येति नाममंत्र