________________
७१
न्यस्य नियता क्रिया ॥ ११ ॥ स्थैर्याधानाय सिद्धस्यासिद्धस्यानयनाय च । भावस्यैव क्रिया शान्तचित्तानामुपयुज्यते ॥१२॥ क्रियाविरहितं हन्त ज्ञानमात्रमनर्थकम् । गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥ १३ ॥ स्वानुकूलां क्रियां काले ज्ञानपूर्णोऽप्यपेक्षते । प्रदीपः स्व(स?)प्रकाशो (शे?)ऽपि तैलपूर्त्यादिकं यथा ॥ १४ ॥ बाह्यभावं पुरस्कृत्य ये क्रियाव्यवहारतः। वदने कवलक्षेप विना ते तृप्तिकाङ्क्षिणः ॥ १५ ॥ गुणवद्बहुमानादेर्नित्यस्मृत्या च सत्क्रिया । जातं न पातयेद्भावमजातं जनयेदपि ॥१६॥ क्षायोपशमिके भावे या क्रिया क्रियते तया । पतितस्यापि तद्भावप्रवृद्धिजर्जायते पुनः ॥ १७ ॥ गुणवृद्धयै ततः कुर्यात् क्रियामस्खलनाय वा । एकं तु संयमस्थानं जिनानामवतिष्ठते ॥ १८ ॥ अज्ञाननाशकत्वेन ननु ज्ञानं विशिष्यते । न हि रज्जावहिभ्रान्तिर्गमने न निवर्तते ॥ १९ ॥ सत्यं क्रियागमप्रोक्ता ज्ञानिनोऽप्युपयुज्यते । सञ्चितादृष्टनाशार्थ नासूरोऽपि यदभ्यधात् ॥ २० ॥ तण्डुलस्य यथा वर्म यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र पुरुषस्य तथा मलम् ।। २१ ॥ जीवस्य तण्डुलस्येव मलं सहजमप्यलम् । नश्यत्येव न सन्देहस्तस्मादुद्यमवान् भव ॥ २२ ।। अविद्या च दिदृक्षा च भवबीजं च वासना । सहजं च मलं चेति पर्यायाः कर्मणः स्मृताः॥२३॥ ज्ञानिनो नास्त्यष्टं चेद्भस्मसात्कृतकर्मणः। शरीरपातः किं न स्याज्जीवनादृष्टनाशतः ।। २४ ॥ शरीरमीश्वरस्येव विदुषोऽप्यवतिष्ठते । अन्यादृष्टवशनेति कश्चिदाह तदक्षमम् ॥२५।। शरीरं विदुषः शिष्याद्यदृष्टाद्यदि तिष्ठति । तदाऽसुहृद्दृष्टेन न नश्येदिति का प्रमा ॥ २६ ॥ न चोपादाननाशेऽपि क्षणं कार्य यथेष्यते । तार्किकैः स्थितिमत्तद्वच्चिरं विद्वत्तनुस्थितिः ॥ २७ ॥ निरुपादानकार्यस्य क्षणं यत्तार्किकैः स्थिति । नाशहेत्वन्तराभावादिष्टा न च स दुर्वचः ॥२८॥ अन्यादृष्टस्य तत्पातप्रतिबन्धकतां नयेत ।