Book Title: Shrutgyan Amidhara
Author(s): Kshamabhadrasuri
Publisher: Shrutgyan Amidhara Gyanmandiram

View full book text
Previous | Next

Page 170
________________ १५१ अविद्यातत्त्वधीविद्यायोगाचार्यैः प्रकीर्तिता ।।१।। यः पश्येन्नित्यमात्मानमनित्यं परसङ्गमम् । छलं लब्धं न शक्नोति तस्य मोहमलिम्लुचः ॥ २ ॥ तरङ्गतरलां लक्ष्मीमायुर्वायुवदस्थिरम् । अदभ्रधीरनुध्यायेदभ्रवद्भरं वपुः ॥ ३ ॥ शुचीन्यप्यशुचीकर्तुं समर्थेऽशुचिसम्भवे । देहे जलादिना शौ वभ्रमो मूढस्य दारुणः ॥ ४ ॥ यः सात्वा समताकुण्डे हित्वा कश्मलजं मलम् । पुनर्न याति मालिन्यं सोऽन्तरात्मा परः शुचिः ॥ ५ ॥ आत्मबोधो नवः पाशो देहगेहधनादिषु। यः क्षिप्तोऽप्यात्मना तेषु स्वस्य बन्धाय जायते ॥ ६॥ मिथो युक्तपदार्थानामसङक्रमचमक्रिया । चिन्मात्रपरिणामेन विदुषैवानुभूयते ॥ ७ ॥ अविद्यातिमिरध्वंसे दृशा विद्याञ्जनस्पृशा । पश्यन्ति परमात्मानमात्मन्येव हि योगिनः ॥ ८ ॥ विवेकाष्टकम्-कर्मजीवं च संश्लिष्टं सर्वदा क्षीरनीरवत् । विभिन्नीकुरुते योऽसौ मुनिहंसो विवेकवान् ॥ १ ॥ देहात्माद्यविवेकोऽयं सर्वदा सुलभो भवे । भवकोट्यापि तद्भेदविवेकस्त्वतिदुर्लभः ॥ २ ॥ शुद्धेऽपि व्योम्नि तिमिरानेखाभिर्मिश्रता यथा । विकारैमिश्रता भाति तथात्मन्यविवेकतः ॥ ३ ॥ यथा योधैः कृतं युद्धं स्वामिन्येवोपचर्यते । शुद्धात्मन्यविवेकेन कर्मस्कन्धोर्जितं तथा ॥ ४ ॥ इष्टकाद्यपि हि स्वर्ण पीतोन्मत्तो यथेक्षते । आत्माभेदभ्रमस्तद्वदेहादावविवेकिनः ॥ ५ ॥ इच्छन्नपरमान भावान् विवेकाद्रः पतत्यधः । परमं भावमन्विष्यन्नाविवेके निमज्जति ॥ ६ ॥ आत्मन्येवात्मनः कुर्याद्यः षट्कारकसङ्गतिम् । काविवेकज्वरस्यास्य वैषम्यं जडमज्जनात् ॥ ७ ॥ संयमास्त्रं विवेकेन शाणेनोत्तेजितं मुनेः । धृतिधारोल्बणं कर्मशत्रुच्छेदक्षमं भवेत् ॥ ८ ॥ माध्यस्थ्याष्टकम्-स्थीयतामनुपालम्भं मध्यस्थेनान्तरात्मना । कुतर्ककर्करक्षेपैस्त्यज्यतां बालचापलम् ॥१॥ मनोवत्सो

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234