________________
१५१ अविद्यातत्त्वधीविद्यायोगाचार्यैः प्रकीर्तिता ।।१।। यः पश्येन्नित्यमात्मानमनित्यं परसङ्गमम् । छलं लब्धं न शक्नोति तस्य मोहमलिम्लुचः ॥ २ ॥ तरङ्गतरलां लक्ष्मीमायुर्वायुवदस्थिरम् । अदभ्रधीरनुध्यायेदभ्रवद्भरं वपुः ॥ ३ ॥ शुचीन्यप्यशुचीकर्तुं समर्थेऽशुचिसम्भवे । देहे जलादिना शौ वभ्रमो मूढस्य दारुणः ॥ ४ ॥ यः सात्वा समताकुण्डे हित्वा कश्मलजं मलम् । पुनर्न याति मालिन्यं सोऽन्तरात्मा परः शुचिः ॥ ५ ॥ आत्मबोधो नवः पाशो देहगेहधनादिषु। यः क्षिप्तोऽप्यात्मना तेषु स्वस्य बन्धाय जायते ॥ ६॥ मिथो युक्तपदार्थानामसङक्रमचमक्रिया । चिन्मात्रपरिणामेन विदुषैवानुभूयते ॥ ७ ॥ अविद्यातिमिरध्वंसे दृशा विद्याञ्जनस्पृशा । पश्यन्ति परमात्मानमात्मन्येव हि योगिनः ॥ ८ ॥
विवेकाष्टकम्-कर्मजीवं च संश्लिष्टं सर्वदा क्षीरनीरवत् । विभिन्नीकुरुते योऽसौ मुनिहंसो विवेकवान् ॥ १ ॥ देहात्माद्यविवेकोऽयं सर्वदा सुलभो भवे । भवकोट्यापि तद्भेदविवेकस्त्वतिदुर्लभः ॥ २ ॥ शुद्धेऽपि व्योम्नि तिमिरानेखाभिर्मिश्रता यथा । विकारैमिश्रता भाति तथात्मन्यविवेकतः ॥ ३ ॥ यथा योधैः कृतं युद्धं स्वामिन्येवोपचर्यते । शुद्धात्मन्यविवेकेन कर्मस्कन्धोर्जितं तथा ॥ ४ ॥ इष्टकाद्यपि हि स्वर्ण पीतोन्मत्तो यथेक्षते । आत्माभेदभ्रमस्तद्वदेहादावविवेकिनः ॥ ५ ॥ इच्छन्नपरमान भावान् विवेकाद्रः पतत्यधः । परमं भावमन्विष्यन्नाविवेके निमज्जति ॥ ६ ॥ आत्मन्येवात्मनः कुर्याद्यः षट्कारकसङ्गतिम् । काविवेकज्वरस्यास्य वैषम्यं जडमज्जनात् ॥ ७ ॥ संयमास्त्रं विवेकेन शाणेनोत्तेजितं मुनेः । धृतिधारोल्बणं कर्मशत्रुच्छेदक्षमं भवेत् ॥ ८ ॥
माध्यस्थ्याष्टकम्-स्थीयतामनुपालम्भं मध्यस्थेनान्तरात्मना । कुतर्ककर्करक्षेपैस्त्यज्यतां बालचापलम् ॥१॥ मनोवत्सो