________________
१५२
युक्तिगवीं मध्यस्थस्यानुधावति । तामाकर्षति पुच्छेन तुच्छाग्रहमनः कपिः ॥ २ ॥ नयेषु स्वार्थसत्येषु मोघेषु परचालने । समशीलं मनो यस्य स मध्यस्थो महामुनिः ॥ ३ ॥ स्वस्वकर्मकृतावेशाः स्वस्वकर्मभुजो नराः। न रागं नाऽपि च द्वेषं मध्यस्थस्तेषु गच्छति ॥४॥ मनः स्याद् व्यापृतं यावत्परदोषगुणग्रहे । कार्य व्यग्रं वरं तावन्मध्यस्थेनाऽऽत्मभावने ॥ ५ ॥ विभिन्ना अपि पन्थानः समुद्रं सरिताभिव । मध्यस्थानां परं ब्रह्म प्राप्नुवन्त्येकमक्षयम् ॥६॥ स्वागमं रागमात्रेण द्वेषमात्रात्परागमम् । न श्रयामस्त्यजामो वा किन्तु मध्यस्थया दशा ॥७॥ मध्यस्थया दृशा सर्वेष्वपुनबन्धकादिषु । चारिसञ्जीविनीचारन्यायादाशास्महे हितम् ॥ ८ ॥
निर्भयाष्टकम-यस्य नास्ति परापेक्षा स्वभावाद्वैतगामिनः । तस्य किं न भयभ्रान्तिक्लान्तिसन्तानतानवम् ॥१॥ भवसौख्येन किं भूरिभयज्वलनभस्मना । सदा भयोज्झितं ज्ञानं सुखमेव विशिष्यते ॥२॥ न गोप्यं कापि नारोप्यं हेयं देयं च न क्वचित् । क भयेन मुनेः स्थेयं ज्ञेयं ज्ञानेन पश्यतः ॥ ३ ॥ एकं ब्रह्मास्त्रमादाय निघ्नन्मोहचमं मुनिः । बिभेति नैव सङग्रामशीर्षस्थ इव नागराट् ॥ ४ ॥ मयूरी ज्ञानदृष्टिश्चेत्प्रसर्पति मनोवने । वेष्टनं भयसर्पाणां न तदानन्दचन्दने ॥५॥ कृतमोहास्त्रवैफल्यं ज्ञानवर्म बिभर्ति यः । क्व भीस्तस्य क्व वा भङ्गः कर्मसङ्गरकेलिषु ॥६॥ तूलवल्लघवो मूढा भ्रमन्त्यभ्रे भयानिलैः। नैकं रोमापि तैनिगरिष्ठानां तु कम्पते ॥ ७ ॥ चित्ते परिणतं यस्य चारित्रमकुतोभयम् । अखण्डज्ञानराज्यस्य तस्य साधोः कुतो भयम् ? ॥ ८ ॥
अनात्मशंसाष्टकम्-गुणैर्यदि न पूर्णोऽसि कृतमात्मप्रशंसया । गुणैरेवासि पूर्णश्चेत्कृतमात्मप्रशंसया ॥१॥ श्रेयोद्रुमस्य मूलानि स्वोत्कर्षाम्भःप्रवाहतः । पुण्यानि प्रकटीकुर्वन् फलं किं