SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५३ समवाप्स्यसि ? || २ || आलम्बिता हिताय स्युः परैः स्वगुणरश्मयः । अहो स्वयं गृहीतास्तु पातयन्ति भवोदधौ ॥ ३ ॥ उच्च दृष्टिदोषोत्थस्त्रोत्कर्षज्वरशान्तिकम् । पूर्वपुरुषसिंहेभ्यो भृशं नीचत्वभावनम् ॥ ४ ॥ शरीररूपलावण्यप्रामारामधनादिभिः । उत्कर्षः परपर्यायैश्चिदानन्दघनस्य कः || ५ | शुद्धाः प्रत्यात्मसाम्येन पर्यायाः परिभाविताः । अशुद्धाश्चापकृष्टत्वान्नोत्कर्षाय महामुनेः ॥ ६ ॥ क्षोभं गच्छन्समुद्रोऽपि स्वोत्कर्षपवनेरितः । गुणौघान् बुबुदीकृत्य विनाशयसि किं मुधा ? ॥ ७ ॥ निरपेक्षानवच्छिन्नानन्तचिन्मात्रमूर्त्तयः । योगिनो गलितोत्कर्षापकर्षानल्पकल्पनाः 11 2 11. तच्च दृष्ट्यष्टकम् - रूपं रूपवती दृष्टिर्दृष्ट्वा रूपं विमुह्यति । मज्जत्यात्मनि नीरूपे तत्त्वदृष्टिस्त्वरूपिणी ।। १ ।। भ्रमवाही बर्हिष्टि मच्छाया तदीक्षणम् । अभ्रान्तस्तत्त्वदृष्टिस्तु नास्यां शेते सुखाऽऽशया || २ || प्रामाऽऽरामादि मोहाय यद् दृष्टं बाह्यया दृशा । तत्त्वदृष्ट्या तदेवान्तर्नीतं वैराग्यसम्पदे || ३ || बाह्यदृष्टेः सुधासारघटिता भाति सुन्दरी । तत्त्वदृष्टेस्तु सा साक्षाद्विण्मूत्रपिठरोदरी || ४ || लावण्यलहरीपुण्यं वपुः पश्यति बाह्यग् । तत्त्वदृष्टिः श्वकाकानां भक्ष्यं कृमिकुलाकुलम् ॥ ५ ॥ गजाश्वैर्भूपभुवनं विस्मयाय बहिर्दशः । तत्रा' वेभवनात्कोऽपि भेदस्तत्त्वदृशस्तु न ॥ ६ ॥ भस्मना केशलोचेन वपुर्धृतमलेन वा । . महान्तं बाह्यग् वेत्ति चित्साम्राज्येन तत्त्ववित् ॥ ७ ॥ न विकाराय विश्वस्योपकारायैव निर्मिताः । स्फुरत्कारुण्यपीयूषवृष्टय स्तत्त्वदृष्टयः || ८ ॥ सर्वसमृद्धयष्टकम् – बाह्यदृष्टिप्रचारेषु मुद्रितेषु महात्मनः । अन्तरेवावभासन्ते स्फुटाः सर्वाः समृद्धयः || १ || समाधिर्नन्दनं
SR No.002341
Book TitleShrutgyan Amidhara
Original Sutra AuthorN/A
AuthorKshamabhadrasuri
PublisherShrutgyan Amidhara Gyanmandiram
Publication Year
Total Pages234
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy