________________
१५४
धैर्य, दम्भोलिः समता शची । ज्ञानं महाविमानं च वासवश्रीरियं मुनेः ॥ २ ॥ विस्तारितक्रियाज्ञानचर्मच्छत्रो निवारयन् । मोहम्लेच्छमहावृष्टिं चक्रवर्ती न किं मुनिः ॥ ३ ॥ नवब्रह्मसुधाकुण्डनिष्ठाधिष्ठायको मुनिः । नागलोकेशवद्भाति क्षमां रक्षन् प्रयत्नतः ॥ ४ ॥ मुनिरध्यात्मकैलाशे विवेकवृषभस्थितः । शोभते विरतिज्ञप्तिगङ्गागौरीयुतः शिवः ॥ ५ ॥ ज्ञानदर्शनचन्द्रार्कनेत्रस्य नरकच्छिदः । सुखसागरमग्नस्य किं न्यूनं योगिनो हरेः ? ॥ ६ ॥ या सृष्टिर्ब्रह्मणो बाह्या बाह्यापेक्षावलम्बिनी । मुनेः परानपेक्षान्तगुणसृष्टिस्ततोऽधिका || ७ || रत्नैस्त्रिभिः पवित्रा या स्रोतोभिरिव जाह्नवी | सिद्धयोगस्य साप्यईत्पदवी न दवीयसी ॥ ८ ॥
कर्म विपाकचिन्तनाष्टकम् - दुखं प्राप्य न दीनः स्यात्, सुखं प्राप्य च विस्मितः । मुनिः कर्मविपाकस्य जानन्परवशं जगत् ॥ १ ॥ येषां भ्रूभङ्गमात्रेण भज्यन्ते पर्वता अपि । तैरहो कर्मवैषम्ये भूपैर्भिक्षापि नाप्यते ॥ २ ॥ जातिचातुर्यहीनोऽपि कर्मण्यभ्युदयावहे | क्षणाद्रक्कोऽपि राजा स्यात् छत्रच्छन्नदिगन्तरः ॥ ३ ॥ विषमा कर्मणः सृष्टिष्टा करभपृष्ठवत् । जात्यादिभूतिवैषम्यात् का रतिस्तत्र योगिनः ? ॥ ४ ॥ आरूढाः प्रशम श्रेणि श्रुतकेवलिनोऽपि च । भ्राम्यन्ते ऽनन्तसंसारमहो दुष्टेन कर्मणा ॥ ५ ॥ अर्वाक् सर्वापि सामग्री श्रान्तैव परितिष्ठति । विपाकः कर्मणः कार्यपर्यन्तमनुधावति || ६ || असावचरमावर्त्ते धर्मं हरति पश्यतः । चरमावर्त्तिसाधोस्तु च्छलमन्विष्य दुष्यति ॥ ७ ॥ साम्यं बिभर्ति यः कर्मविपाकं हृदि चिन्तयन् । स एव स्याचिदानन्दमकरन्दमधुव्रतः ॥ ८ ॥
भवोद्वेगाष्टकम् - यस्य गम्भीर मध्यस्याऽज्ञानवत्रमयं तलम्। रुद्धा व्यसनशैलौघैः पन्थानो यत्र दुर्गमाः || १ || पाताल कलशा