________________
१५५
यत्र भृतास्तृष्णामहानिलैः । कषायाश्चित्तसङ्कल्पवेलावृद्धिं वितन्वते ॥ २ ॥ स्मरौर्वाग्निर्बलत्यन्तर्यत्र स्नेहेन्धनः सदा । यो घोररोगशोकादिमत्स्यकच्छपसङ्कुलः ॥ ३ ॥ दुर्बुद्धिमत्सरद्रोहैर्विार्वातगर्जितैः । यत्र सांयात्रिका लोकाः पतन्त्युत्पातसङ्कटे ॥ ४ ॥ ज्ञानी तस्माद्भवाम्भोधेर्नित्योद्विनोऽतिदारुणात् । तस्य सन्तरणोपायं सर्वयत्नेन काङक्षति ॥ ५ ॥ तैलपात्रधरो यद्वद् राधावेधोद्यतो यथा । क्रियास्वनन्यचित्तः स्याद्भवभीतस्तथा मुनिः ॥ ६ ॥ विषं विषस्य वह्निश्च वढेरेव यदौषधम् । तत्सत्यं भवभीतानामुपसर्गेऽपि यन्न भीः ॥ ७ ॥ स्थैर्य भवभयादेव व्यवहारे मुनिव्रजेत् । स्वात्मारामसमाधौ तु तदप्यन्तर्निमज्जति ॥ ८ ॥
लोकसंज्ञात्यागाष्टकम्-प्राप्तः षष्ठं गुणस्थानं भवदुर्गाद्रिलछन्नम् । लोकसंज्ञारतो न स्यान्मुनिर्लोकोत्तरस्थितिः ॥ १ ॥ यथा चिन्तामणिं दत्ते बठरो बदरीफलैः । हहा जहाति सद्धर्म तथैव जनरञ्जनैः ।। २ ।। लोकसंज्ञामहानद्यामनुस्रोतोऽनुगा न के। प्रतिस्रोतोऽनुगस्त्वेको राजहंसो महामुनिः ॥ ३ ॥ लोकमालम्ब्य कर्तव्यं कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो न त्याज्य: स्यात्कदाचन ॥ ४ ॥ श्रेयोऽर्थिनो हि भूयांसो लोके लोकोत्तरे न च । स्तोका हि रत्ववणिजः स्तोकाश्च स्वात्मसाधकाः ॥ ५ ॥ लोकसंज्ञाहता हन्त ! नीचैर्गमनदर्शनैः। शंसयन्ति स्वसत्त्यागमर्मघातमहाव्यथाम् ॥६॥ आत्मसाक्षिकसद्धर्मसिद्धौ किं लोकयात्रया। तत्र प्रसन्नचन्द्रश्च भरतश्च निदर्शनम् ॥ ७ ॥ लोकसंज्ञोज्झितः साधुः परब्रह्मसमाधिमान् । सुखमास्ते गतद्रोहममतामत्सरज्वरः ।।
शास्त्राष्टकम्-चर्मचक्षुर्भूतः सर्वे देवाश्चावधिचक्षुष : । सर्वतश्चक्षुषः सिद्धाः साधवः शास्त्रचक्षुषः ॥ १ ॥ पुरःस्थितानिबोर्ध्वाधस्तिर्यगलोकविवर्तिनः । सर्वान भावानवेक्षन्ते झानिनः