________________
१५६
शास्त्रचक्षुषा ॥ २ ॥ शासनात्राणशक्तेश्च बुधैश्शास्त्रं निरुच्यते । वचनं वीतरागस्य तत्त नान्यस्य कस्यचित् ॥३॥ शास्त्रे पुरस्कृते तस्माद्वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्नियमात् सर्वसिद्धयः ॥ ४ ॥ अदृष्टार्थे नु धावन्तः शास्त्रदीपं विना जडाः । प्राप्नुवन्ति परं खेदं प्रस्खलन्तः पदे पदे ॥ ५ ॥ शुद्धोञ्छाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य पदस्पर्शनिवारणम् ॥६॥ अज्ञानाहिमहामन्त्रं स्वाच्छन्द्यज्वरलङ्घनम् । धर्मारामसुधाकुल्यां शास्त्रमाहुमहर्षयः ॥७॥ शास्त्रोक्ताचारकर्ता च शास्त्रज्ञः शास्त्रदेशकः । शास्त्रैकहग् महायोगी प्राप्नोति परमं पदम् ॥ ८ ॥
परिग्रहाष्टकम्-न परावर्तते राशेर्वक्रतां जातु नोज्झति । परिग्रहग्रहः कोऽयं विडम्बितजगत्त्रयः ॥ १ ॥ परिग्रहग्रहावेशावर्भाषितरजःकिराः । श्रूयन्ते विकृताः किं न ? प्रलापा लिङ्गिनामपि। २॥ यस्त्यक्त्वा तृणवबाह्यमान्तरं च परिग्रहम् । उदास्ते तत्पदाम्भोज पर्युपास्ते जगत्त्रयी ॥ ३ ॥ चित्तेऽन्तर्ग्रन्थिगहने बहिनिग्रन्थता वृथा । त्यागातकचुकमात्रस्य भुजगो नहि निर्विषः ॥४॥ त्यक्ते परिग्रहे साधोः प्रयाति सकलं रजः । पालित्यागे क्षणादेव सरसः सलिलं यथा। ५।। त्यक्तपुत्रकलत्रस्य मूर्छा मुक्तस्य योगिनः । चिन्मात्रप्रतिबद्धस्य का पुद्गलनियन्त्रणा ॥ ६ ॥ चिन्मात्रदीपको गच्छेनिर्वातस्थानसन्निभैः । निष्परिग्रहता स्थैर्य धर्मोपकरणैरपि ॥७॥ मूर्छाछन्नधियां सर्व जगदेव परिग्रहः । मूर्च्छया रहितानान्तु जगदेवापरिग्रहः ॥ ८॥
अनुभवाष्टकम्-सन्ध्येव दिनरात्रिभ्यां केवलश्रुतयोः पृथक् । बुधैरनुभवो दृष्टः केवलार्कारुणोदयः ॥ १॥ व्यापारः सर्वशास्त्राणां दिक्प्रदर्शनमेव हि । पारं तु प्रापयत्येकोऽनुभवो भववारिधेः ॥ २ ॥ अतीन्द्रियं परं ब्रह्म विशुद्धानुभवं विना ।