________________
शास्त्रयुक्तिशतेनापि न गम्यं यद् बुधा जगुः ॥ ३ ॥ ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ४ ॥ केषां न कल्पनादर्वी शास्त्रक्षीरानगाहिनी । विरलास्तद्रसास्वादविदोऽनुभवजिह्ववा ॥ ५॥ पश्यन्ति ब्रह्मनिर्द्वन्द्वं निर्द्वन्द्वानुभवं विना । कथं लिपिमयी दृष्टिाङ्मयी वा मनोमयी ॥ ६ ॥ न सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ । कल्पनाशिल्पविश्रान्तेस्तुर्यैवानुभवे दशा ॥ ७ ॥ अधिगत्याखिलं शब्दब्रह्म शास्त्रदृशा मुनिः । स्वसंवेद्य परंब्रह्मानुभवेनाधिगच्छति ॥ ८ ॥
योगाष्टकम्-मोक्षण योजनाद्योगः सर्वोऽप्याचार इज्यते विशिष्य स्थानवालम्बनैकाग्र्यगोचरः ॥१॥ कर्मयोगद्वयं तत्र ज्ञानयोगत्रयं विदुः । विरतेष्वेव नियमाद्वीजमात्रं परेष्वपि ॥२॥ कृपानिर्वेदसंवेगप्रशमोत्पत्तिकारिणः । भेदाः प्रत्येकमत्रेच्छाप्रवृत्तिस्थिरसिद्धयः ॥ ३ ॥ इच्छा तद्वत्कथाप्रीतिः प्रवृत्तिः पालनं परम् । स्थैर्य बाधकभीहानिः सिद्धिरन्यार्थसाधनम् ॥ ४ ॥ अर्थालम्बनयोश्चैत्यवन्दनादौ विभावनम् । श्रेयसे योगिनः स्थानवर्णयोर्यत्र एव च ॥ ५ ॥ आलम्बनमिह ज्ञेयं द्विविधं रूप्यरूपि च । अरूपि गुणसायुज्ययोगोऽनालम्बनं परम् ॥ ६॥ प्रीतिभक्तिवचोऽसङ्गैः स्थानाद्यपि चतुर्विधम् । तस्मादयोगयोगाप्तिर्मोक्षयोगः क्रमाद्भवेत् ॥ ७ ॥ स्थानाधयोगिनस्तीर्थोच्छेदाद्यालम्बनादपि । सूत्रदाने महादोष इत्याचार्याः प्रचक्षते ॥ ८ ॥
नियागाष्टकम्-यः कर्म हुतवान् दीप्ते ब्रह्माग्नौ ध्यानध्यायया ! स निश्चितेन यागेन नियागप्रतिपत्तिमान् ॥ १ ॥ पापध्वंसिनि निष्कामे ज्ञानयज्ञे रतो भव । सावधेः कर्मयज्ञैः किं ? भूतिकामनयाविलैः ॥ २॥ वेदोक्तत्वान्मनःशुद्धथा कर्मयज्ञोऽपि