________________
१५८
योगिनः । ब्रह्मयज्ञ इतीच्छन्तः श्येनयागं त्यजन्ति किम् ? ॥३॥ ब्रह्मयज्ञः परं कर्म गृहस्थस्याधिकारिणः । पूजादि वीतरागस्य शानमेव तु योगिनः ॥४॥ भिन्नोद्देशेन विहितं कर्म कर्मक्षयाऽक्षमम् । क्लप्तभिन्नाधिकारं च पुढेष्टयादिवदिष्यताम् ॥ ५ ॥ ब्रह्मार्पणमपि ब्रह्मयज्ञान्तर्भावसाधनम् । ब्रह्माग्नौ कर्मणो युक्तं स्वकृतत्वस्मये हुते ॥ ६ ॥ ब्रह्मण्यर्पितसर्वस्वो ब्रह्मदृग्ब्रह्मसाधनः । ब्रह्मणा जुह्वदब्रह्म ब्रह्मणि ब्रह्मगुप्तिमान् ॥ ७॥ ब्रह्माध्ययननिष्ठावान् परब्रह्मसमाहितः । ब्राह्मणो लिप्यते नाधैर्नियागप्रतिपत्तिमान् ॥८॥
भावपूजाष्टकम्-दयाम्भसा कृतस्नानः सन्तोषशुभवस्त्रभृत् । विवेकतिलकभ्राजी भावनापावनाशयः ॥ १ ॥ भक्तिश्रद्धानघुसृणोन्मिश्रकश्मीरजद्रवैः । नवब्रह्मांगतो देवं शुद्धमात्मानमर्चय ॥२॥ क्षमापुष्पस्रजं धर्मयुग्मक्षौमद्वयं तथा । ध्यानाभरणसारं च तदङ्गे विनिवेशय ॥ ३ ॥ मदस्थानभिदात्यागैलिखाग्रे चाष्टमङ्गलीम् । ज्ञानाग्नौ शुभसङ्कल्पकाकतुण्डं च धूपय ॥ ४ ॥ प्राग्धर्मलवणोत्तारं धर्मसंन्यासवह्निना । कुर्वन् पूरय सामर्थ्यराजन्नीराजनाविधिम् ॥ ५ ॥ स्फुरन्मङ्गलदीपं च स्थापयानुभवं पुरः । योगनत्यपर(स्तु) स्तौर्यत्रिकसंयमवान् भव ॥ ६॥ उल्लसन्मनसः सत्यघण्टां वादयतस्तव । भावपूजारतस्येत्थं करक्रोडे महोदयः ॥ ७ ॥ द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् । भावपूजा तु साधूनामभेदोपासनामिका ॥ ८ ॥
ध्यानाष्टकम्-ध्याता ध्येयं तथा ध्यानं त्रयं यस्यैकतां गतम् । मुनेरनन्यचित्तस्य तस्य दुःखं न विद्यते ॥ १ ॥ ध्यातान्तरात्मा ध्येयस्तु परमात्मा प्रकीर्तितः । ध्यानं चैकाग्रसंवित्तिः समापत्तिस्तदेकता ॥ २॥ मणौ बिम्बप्रतिच्छाया सभापत्तिः परात्मनः । क्षीणवृत्तौ भवेद् ध्यानादन्तरात्मनि निर्मले ॥ ३ ॥ आपत्तिश्च ततः पुण्यतीर्थकृत्कर्मबन्धतः । तद्भावाभिमुखत्वेन सम्प