________________
त्तिश्च क्रमाद्भवत् ॥४॥ इत्थं ध्यानफलाद्युक्तं विंशतिस्थानकाद्यपि । कष्टमात्रं त्वभव्यानामपि नो दुर्लभं भवे ।। ५ ॥ जितेन्द्रियस्य धीरस्य प्रशान्तस्य स्थिरात्मनः । सुखासनस्य नासाग्रन्यस्तनेत्रस्य योगिनः ॥६॥ रुद्धबाह्यमनोवृत्तेरिणाधारया रयात् । प्रसन्नस्याप्रमत्तस्य चिदानन्दसुधालिहः ॥ ७ ॥ साम्राज्यमप्रतिद्वन्द्वमन्तरेव वितन्वतः । ध्यानिनो नोपमा लोके सदेव मनुजेऽपि हि ॥ ८॥
तपोऽष्टकम्-ज्ञानमेव बुधाः प्राहुः कर्मणां तापनात्तपः । तदाभ्यन्तरमेवेष्टं बाह्यं तदुपबृंहकम ॥ १॥ आनुश्रोतसिकी वृत्तिर्बालानां सुखशीलता । प्रातिश्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः ।। २ ।। धनार्थिनां यथा नास्ति शीततापादि दुस्सहम् । तथा भवविरक्तानां तत्त्वज्ञानार्थिनामपि ॥ ३ ॥ सदुपायप्रवृत्तानामुपेयमधुरत्वतः । ज्ञानिनां नित्यमानन्दवृद्धिरेव तपस्विनाम् ॥ ४ ॥ इत्थं च दुःस्व रूपत्वात्तपो व्यर्थमितीच्छताम् । बौद्धानां निहता बुद्धिर्बोद्धानन्दापरिक्षयात् ॥ ५ ॥ यत्र ब्रह्म जिनार्चा च कषायाणां तथा हृतिः । सानुबन्धा जिनाज्ञा च तत्तपः शुद्धमिष्यते ॥६॥ तदेव हि तपः कार्य दुर्ल्यानं यत्र नो भवेत् । येन योगा न हीयन्ते क्षीयन्ते नेन्द्रियाणि वा ।। ७ ।। मूलोत्तरगुणश्रेणिप्राज्यसाम्राज्यसिद्धये । बाह्यमाभ्यन्तरं चेत्थं तपः कुयोन्महामुनिः ॥ ८ ॥
सर्वनयाश्रयणाष्टकम्--धावन्तोऽपि नयाः सर्वे स्युर्भाव कृतविश्रमाः । चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ॥ १ ॥ पृथग्नया मिथः पक्षप्रतिपक्षकदर्थिताः । समवृत्तिसुखास्वादी ज्ञानी सर्वनयाश्रितः ॥ २ ।। नाप्रमाणं प्रमाणं वा सर्वमप्यविशेषितम् । विशेषितं प्रमाणं स्यादिति सर्वनयज्ञता ॥ ३॥ लोके सर्वनयज्ञानां ताटस्थ्यं वाप्यनुग्रहः । स्यात् पृथङ् नयमूढानां स्मयार्तिर्वाप्यतिग्रहः ॥५॥ श्रेयः सर्वनयज्ञानां विपुलं धर्मवादतः । शुष्कवादविवादाच्च