________________
१६०
परेषां तु विपर्ययः ॥ ५ ॥ प्रकाशितं जिनानां यैर्मतं सर्वनयाश्रितम् । चिते परिणतं चेदं येषां तेभ्यो नमो नमः ॥ ६॥ निश्चये व्यवहारे च त्यक्त्वा ज्ञाने च कर्मणि । एकपाक्षिकवि लेषमारूढाः शुद्धभूमिकाम् ॥ ७ ॥ अमूढलक्ष्याः सर्वत्र पक्षपातविजिताः । जयन्ति परमानन्दमयाः सर्वनयाश्रयाः ॥ ८ ॥
उपसंहारार्थे सर्वाष्टकानां भावनाभिधानाख्याननिर्देशः पूर्णो मग्नः स्थिरोऽमोहो ज्ञानी शान्तो जितेन्द्रियः । त्यागी क्रियापरस्तृप्तो निलेपो निस्पृहो मुनिः ॥ १ ॥ विद्याविवेकसम्पन्नो मध्यस्थो भयवर्जितः । अनात्मशंसकस्तत्त्वदृष्टि: सर्वसमृद्धिमान ॥ २ ॥ ध्याताकर्मविपाकानामुद्विग्नो भववारिधेः । लोकसंज्ञाविनिर्मुक्त: शास्त्रहम् निष्परिग्रहः ॥ ३ ॥ शुद्धानुभववान् योगी नियागप्रतिपत्तिमान । भावार्चाध्यानतपसां भूमिः सर्वनयाश्रितः ॥ ४॥ स्पष्टं निष्टङ्कितं तत्त्वं अष्टकैः प्रतिपन्नवान् । मुनिमहोदयं ज्ञानसारं समधिगच्छति ॥ ५ ॥ निर्विकारं निराबाधं ज्ञानसारमुपेयुषाम् । विनिवृत्तपराशानां मोक्षोऽत्रैव महात्मनाम् ॥ ६ ॥ चित्तमार्दीकृतं ज्ञानसारसारस्वतोर्मिभिः । नाप्नोति तीव्रमोहाग्निप्लोषशोषकदर्थनाम् ॥ ७ ॥ अचिन्त्या कापि साधूनां ज्ञानसारगरिष्ठता । गतिर्ययोर्ध्वमेव स्यादधःपातः कदापि न ॥ ८ ॥ क्लेशक्षयो हि मण्डूकचूर्णतुल्यः क्रियाकृतः । दग्धतवर्णसदृशो ज्ञानसारकृतः पुनः ॥ ९ ॥ ज्ञानपूतां परेऽप्याहुः क्रियां हेमघटोपमाम् । युक्तं तदपि तद्भावं न यद्भग्नापि सोज्झति ॥ १० ॥ क्रियाशून्यं च यज्झानं ज्ञानशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥ ११ ॥ चारित्रं विरतिः पूर्णा ज्ञानस्योस्कर्ष एव हि । ज्ञानाद्वैतनये दृष्टिया तद्योगसिद्धये ॥ १२ ॥