________________
१६१
एतच्छास्त्ररचनाकालक्षेत्रादि-सिद्धिं सिद्धपुरे पुरन्दरपुरस्पर्धवहे लब्धवान् । चिद्दीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणि । एतद्भावनभावपावनमनश्चञ्चच्चमत्कारिणां तैस्तैर्दीपशतैः सुनिश्चयमतैर्नित्योऽस्तु दीपोत्सवः ।। १३ ॥ केषाञ्चिद्विषयज्वरातुरमहो चित्तं परेषां विषावेगोदककुतर्कमूछितमथान्येषां कुवैराग्यतः । लग्नालकमबोधकूपपतितं चास्तेऽपरेषामपि स्तोकानां तु विकारभाररहितं तज्ज्ञानसाराश्रितम् ॥ १४ ॥
ग्रन्थाभ्यासरूपफलम्-जातोद्रे कविवेकतोरणततेर्धावल्यमातन्यते, हृद्रोहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः । पूर्णानन्दघनस्य किं सहजया तद्भाग्यभङ्गया भवन्नैतद्ग्रन्थमिषात्करग्रहमहश्चित्रश्चरित्रश्रियः ॥१५॥ भावस्तोमपवित्रगोमयरसैः सिक्तेव भूः सर्वतः, संसिक्ता शमतोदकैरथ पथि न्यस्ता विवेकस्रजः । अध्यात्मामृतपूर्णकामकलशचक्रेऽत्र शास्त्रे पुरः पूर्णानन्दघने पुरं प्रविशति स्वीयं कृतं मङ्गलम् ॥ १६ ॥ गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः । तत्सातीर्थ्य भतां नयादिविजयप्राज्ञोत्तमानां शिशोः, श्रीमन्यायविशारदस्य कृतिनामेषा कृतिः प्रीतये ॥ १७ ॥
श्रीधर्मदासगणिविरचिता उपदेशभाला नमिऊण जिणवरिंदे, इंदनरिंदच्चिए तिलोअगुरू । उवएसमालमिणमो, वुच्छामि गुरूवएसेणं ॥ १ ॥ जगचूडामणिभूओ, उसभो वीरो तिलोअसिरितिलओ । एगो लोगाइच्चो, एगो चक्खू तिहुअणस्स ॥ २ ॥ संवच्छरमुसभजिणो, छम्मासा वद्धमाणजि। णचंदो । इअ विहरिआ निरसणा, जइज एओवमाणेणं ॥ ३ ॥