________________
१५०
इत्यात्मैश्वर्यसम्पन्नो निस्पृहो जायते मुनिः ॥ १ ॥ संयोजितकरैः के के प्रार्थ्यन्ते न स्पृहावहैः। अमात्रज्ञानपात्रस्य निस्पृहस्य तृणं जगत् ॥ २ ॥ छिन्दन्ति ज्ञानदात्रेण स्पृहाविषलतां बुधाः । मुखशोकं च मूच्छा च दैन्यं यच्छति यत्फलम् ॥ ३ ॥ निष्कासनीया विदुषा स्पृहा चित्तगृहाद् बहिः । अनात्मरतिचाण्डाली. सङ्गमङ्गीकरोति या ॥ ४ ॥ स्पृहावन्तो विलोक्यन्ते लघवस्तृणतूलवत् । महाश्चर्य तथाप्येते मज्जन्ति भववारिधौ ॥ ५ ॥ गौरवं पौरवन्द्यत्वात्प्रकृष्ठत्वं प्रतिष्ठया । ख्यातिं जातिगुणात् स्वस्य प्रादुःकुर्यान्न निस्पृहः ॥ ६॥ भूशय्या भैक्षमशनं जीणं वासो वनं गृहम् ! तथापि निस्पृहस्याहो चक्रिणोऽप्यधिकं सुखम् ॥ ७ ॥ परस्पृहा महादुःखं निस्पृहत्वं महासुखम । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥ ८ ॥
मौनाष्टकम्-मन्यते यो जगत्तत्त्वं स मुनिः परिकीर्तितः। सम्यक्त्वमेव तन्मौनं मौनं सम्यक्त्वमेव च ॥ १॥ आत्मात्मन्येव यच्छुद्धं जानात्यात्मानमात्मना । सेयं रत्नत्रये ज्ञप्तिरुच्याचारैकता मुनेः ॥२॥ चारित्रमात्मचरणाज्ज्ञानं वा दर्शनं मुनेः। शुद्धज्ञाननये साध्यं क्रियालामात् क्रियानये ॥३॥ यतः प्रवृत्तिन मणौ लभ्यते वा न तत्फलम् । अतात्त्विकी मणिज्ञप्तिर्मणिश्रद्धा च सा यथा ॥ ४ ॥ तथा यतो न शुद्धात्मस्वभावाचरणं भवेत् । फलं दोषनिवृत्तिर्वा न तज्ज्ञानं न दर्शनम् ॥ ५ ॥ यथा शोफस्य पुष्टत्वं यथा वा वध्यमण्डनम् । तथा जानन् भवोन्मादमात्मतृप्तो मुनिर्भवेत् ॥ ६॥ सुलभं वागनुचारं मौनमेकेन्द्रियेष्वपि । पुद्गलेष्वप्रवृत्तिस्तु योगानां मौनमुत्तमम् ॥७॥ ज्योतिर्मयीव दीपस्य क्रिया सर्वापि चिन्मयी।यस्यानन्यस्वभावस्य तस्य मौनमनुत्तरम् ॥८॥
विद्याष्टकम्-नित्यशुच्यात्मताख्यातिरनित्याशुच्यनात्मसु ।