________________
१४९
साम्यताम्बूलमास्वाद्य तृप्तिं याति परां मुनिः ॥ १ ॥ स्वगुणैरेव तृप्तिश्चेदाकालमविनश्वरी । ज्ञानिनो विषयैः किं तैर्भवेत्तृप्तिरित्वरी ॥२॥ या शान्तैकरसास्वादाद्भवेत्तृप्तिरतीन्द्रिया सा न जिहवेन्द्रियद्वारा षड्रसास्वादनादपि ॥ ३ ॥ संसारे स्वप्नवन्मिथ्या तृप्तिः स्यादाभिमानिकी । तथ्या तु भ्रान्तिशून्यस्य सात्मवीर्यविपाककृत् ॥ ४ ॥ पुद्गलैः पुद्गलास्तृप्तिं यान्त्यात्मा पुनरात्मना । परतृप्तिसमारोपो ज्ञानिनस्तन्न युज्यते ॥ ५ ॥ मधूराज्यमहाशाखाग्राह्ये बाधे च गोरसात् । परब्रह्मणि तृप्तिर्या जनास्तां जानतेऽपि न ॥६॥ विषयोर्मिविषोद्गारः स्यादतृप्तस्य पुद्गलैः । ज्ञानतृप्तस्य तु ध्यानसुधोदारपरम्परा ॥ ७ ॥ सुखिनो विषयातृप्ता नेन्द्रोपेन्द्रादयोऽप्यहो। भिक्षुरेकः सुखी लोके ज्ञानतृप्तो निरञ्जनः ।। ८ ।।
निलेपाष्टकम्-संसारे निवसन् स्वार्थसज्जः कजलवेश्मनि । लिप्यते निखिलो लोको ज्ञानसिद्धो न लिप्यते ॥ १॥ नाऽहं पुद्गलभावानां कर्ता कारयितापि न । नानुमन्तापि चेत्यात्मा ज्ञानवान् लिप्यते कथम् ? ॥ २ ॥ लिप्यते पुद्गलस्कन्धो न लिप्ये पुद्गलैरहम् । चित्रव्योमाञ्जनेनेव ध्यायन्निति न लिप्यते ॥ ३ ॥ लिप्तता ज्ञानसम्पातप्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य क्रिया सर्वोपयुज्यते ॥ ४ ॥ तपःश्रुतादिना मत्तः क्रियावानपि लिप्यते । भावनाज्ञानसंपन्नो निष्क्रियोऽपि न लिप्यते ॥ ५ ॥ अलिप्तो निश्चयेनात्मा, लिप्तश्च व्यवहारतः । शुद्धयत्यलिप्तया ज्ञानी क्रियावान् लिप्तया दृशा ॥ ६ ॥ ज्ञानक्रियासमावेशः सहैवोन्मीलने द्वयोः । भूमिकाभेदतस्त्वत्र भवेदेकैकमुख्यता ॥ ७ ॥ सज्ञानं यदनुष्ठानं न लिप्तं दोषपङ्कतः । शुद्धबुद्धस्वभावाय तस्मै भगवते नमः ॥ ८ ॥
निस्पहाष्टकम्-स्वभावलाभाकिमपि प्राप्तव्यं नावशिष्यते।